वरदानमर्थसिद्धमिति तदनुत्का भगवन्निर्गमे जाते प्रथमतो
रागनिवृत्त्यर्थं ग्राम्यभोगा भुक्ता इत्याह-
गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् ॥
ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तनोरथौ ॥४०॥
गते मयीति ॥ मत्सदृशं सुतं वरत्वेन प्राप्य
तन्निर्द्धारं कृत्वा ग्राम्यभोगेन च तत्र विघ्नो भविष्यतीति
शङ्कामकृत्वा ग्राम्यान भोगान् अभुञ्जाथाम् ॥ यतो युवां
प्राप्तमनोरथाविति भिन्नं वाक्यं, नैश्चिन्त्ये हेतुत्वार्थमुक्तम् ।
पुनर्युवामिति ग्रहणं संस्कारोद्बोधे संमत्यर्थम् ॥ ४०॥
यद्यपि युवाभ्यां भ्रमादेव याचितो वरस्तथाप्यविद्यमानं न
गोविन्दापहृतात्मत्वेनैवानिवृत्तिसम्भवेऽपि मोहिता इत्युक्तम् ।
अत एव भगवन्मायावाचकपदयोरसमासः । दास्यभावात्
पितृत्वादिभावस्य न्यूनत्वात् । यद्वा, समो मशकेनेति श्रुतेर्भगवतः
सर्वसमत्वेऽपि भगवत्समत्वं नान्यस्यास्तीति तादृक्पुत्रवरणं मोहकार्यमिति
तथोक्तिः । वस्तुतस्तु अपवर्गं न ववाथे इत्येतावतैव चारितार्थेऽपि
म इति यदुक्तं, तेन पुरुषोत्तमसम्बन्धी भक्तिमार्गीयो दास्यरूपो
योऽपवर्गः स उच्यते । तस्य सर्वाधिकत्वात्तदवरणं मोहादेवेति तथा।
ननु तदवरणोक्तिप्रयोजनं न पश्यामः । तया विनापि प्रकृतार्थोपपत्तेः ।
उच्यते। भगवद्वचनैरुक्तप्रकारकस्वरूपदर्शनेन च
सर्वार्थतत्त्वज्ञानमभूदित्येवम्भूतास्मत्क्लेशेनाविर्भूतो भगवान् दास्यमेव कुतो
नदत्तवानित्याशङ्काभावायैतदुक्तम् । अत्रायं भावः । कामदित्सयेतिवचना-
न्नियतेच्छयैवाविर्भाव इति भवदकामितं स्वतो न देयम् । अपवर्गे
च भवतोः कामो नाऽभूदिति तथेति ज्ञापयितुं तदुक्तिः । तथापि
परमकृपालुरवं कुतः कृतवानिति शङ्का तु, एवं सति याऽन्तरङ्गेत्या-
दिना प्रागेव निरस्ता । एतेनैव कामदित्सयति
वाक्यादेवाकामितादानस्य प्राप्तेः कामाभावस्य च स्वतः
सिद्धत्वात्तदनुवादः किमर्थ इत्याशङ्काऽपि निरस्ता ज्ञेया।
कामाभावहेतोर्मोहस्यापि निरूपणात ।
अन्यथा मोहनमेव कुतः कृतवानिति शङ्का तिष्ठेदेवेति॥