पृष्ठम्:श्रीसुबोधिनी.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


देयम् । कृत्रिमं तु न संभवति । सर्वभावेन स्वस्य द्वैरूप्ये श्रुतिविरोधो मर्यादाभङ्गश्च स्यात् । अदानेऽपि तथा । सादृश्यस्य भेदसहिष्णुत्वेऽपि तयोराकार एव तात्पर्यमिति तात्पर्यविरोधाऽभावात्। तात्पर्यज्ञापकं वचनमिति जीववाक्यत्वाद्यथाश्रुतं वचनं बाधित्वा अहमेव पुत्रो जात इत्याह-



 अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् ॥
 अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः॥४१॥


 अदृष्ट्वेति ॥ यद्यपि मत्तोऽन्ये केचन संभवन्ति मायया सृष्टाः । तेषामपि मत्सत्तयैव सत्तेति सर्वात्मनान्यतमत्वं नास्ति । असतः सत्ता नाङ्गीक्रियत इति लोके अदृष्ट्वेत्युक्तम् । यद्यपि कृत्रिमेऽपि रूपसाम्यं शक्यते कर्त्तुं, तथापि शीलौदार्यगुणाः आत्मान्तःकरणनिष्ठा अलौकिका नोत्पादनीया इति विशिष्टस्य मिलितस्य वा अदर्शनमेव । अतोऽहं सुतो वामभवम् । उभयोरपि क्रमेण प्रादुर्भूत इत्यर्थः । स एकथा भवति दशधा भवतीत्यादिश्रुत्या तथा तस्य भवने न कोऽपि विरोधः । जन्मैव मुख्यामिति पृश्निगर्भइति तन्नाम्नैव लोकप्रसिद्धिरुक्ता। स्मृत इति प्रमाणम् ।। ४१ ॥

अपवर्गस्याप्रार्थितत्वात् पुनर्जन्मान्तरं जातम् । तस्मिन्नपि जन्मनि तयोस्तुल्यत्वात् पुनरहं पुत्रो जात इत्याह-


 तयोर्वां पुनरेवाहमदित्यामास कश्यपात् ॥
 उपेन्द्र इति विख्यातो वामनत्वाञ्च वामनः ॥४२॥


 तयोर्वामिति ॥ तयोरेव युवयोः पुनरेवाहं स्वसदृशमदृष्ट्वा पुनरेवाहं जातः । तयोर्जन्मान्तरे अदितिकश्यपत्वम् । तदाह ।। अदित्यामास कश्यपादिति ।। यद्यप्यत्र अदितिगर्भ इति वक्तव्यं,