तथाऽपि उपेन्द्र इत्येव लोके विख्यातः । नामान्तरप्रसिद्धौ
हेतुमाह ।। वामनत्वादिति ॥ द्वितीये जन्मनि नामद्वयम् ।
उपन्द्रोवामन इति ॥ ४२ ॥
पुनस्तृतीयं जन्म तयोर्जातम् । तत्राप्यहमेव पुत्रो जात इत्याह--
तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषा युवाम् ॥
जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ।। ४३॥
तृतीयेऽस्मिन्निति ॥ अयं परिदृश्यमानो भवस्तृतीयो
भवति । अत्रापि नामद्वयं मुख्यम् । तृतीयस्थाने वहूनि ।
देवकीनन्दन इति च मुख्यम् । तदने वक्ष्यामः ।
पूर्वयोर्भवयोरूपभेदोऽस्ति । तृतीये तु जन्मनि तेनैव प्रसन्नेनैव
वपुपा तयोरेव भूयो जातः । एवं वारत्रयभवने हेतुमाह ॥
सत्यं मे व्याहृतमिति ।। यदि कस्मिन्नपि जन्मनि
वरानन्तरभाव्ये भगवान् पुत्रो न भवेत् तदा वाक्यमसत्यं स्यात् ।
पूर्वदेहस्य त्यक्तत्वात् तत्पुत्रो न पुत्रो भवति व्यवहाराभावात्
प्रमाणाभावाञ्च । अतः पुनर्जन्मान्तरे पुत्रत्वेन भाव्यम् । अग्रे
तु जन्माभावात् पुत्रत्वाभावः ॥ सतीति संबोधनं सम्माननार्थम् ।
सैव पतिव्रता भवति, या कल्पादौ यं पतिं प्रामोति
कल्पान्तपर्यन्त सर्वजन्मसु तमेव चेत् प्राप्नोति । तस्याश्च पुनर्धर्माः,
अभिज्ञानं च शास्त्रे निरूपितम् । या प्रथमं नम्रियते, मृते म्रियेत ।
तादृशी त्वमिति ज्ञापयति मोक्षार्थम् । व्यभिचारिण्याः स्त्रियास्तु
नमुक्तिः । अतः सर्वदोषपरिहारार्थ सतीति संबोधनमन्ते निरूपितम् ।। ४३ ॥
एवं पुत्रत्वे हेतुमुक्ता तादृगरूपेणाविर्भावे हेतुमाह-
एतद् वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे ॥
नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जन्यते ॥४४॥