चित्तस्य स्वभावत एव चेजातस्तदोपशान्तं चित्तं भवति । एवं
यमा नियमाश्चोक्ताः । मत्तो हरेरेव । कामान् पुत्रादीन्
अभीप्सन्तौ सकामौ मदाराधनं मत्परिचर्यामीहतुः कृतवन्तौ ॥ ३५॥
एवं तिष्ठतोर्यावान् कालो जातस्तमाह--
एवं वां तप्यतोर्भद्रे तपः परमदुष्करम् ॥
दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः ॥ ३६॥
एवमिति ॥ भद्रे इति संबोधनं, स्त्रीपुंभावेन स्थितयोः
सौभाग्यबोधनार्थम् । उत्तरोत्तरतपोटद्धौ परमदुष्करता
द्वादशदिव्यवर्षसहस्राणि चतुर्युगम् । युगधर्मा अपि तयोर्बाधका न
जाता इति ज्ञापनार्थ, तावत्कालं देहस्थितौ हेतु:- मदात्मनोरिति ॥
अहमेवात्मनि ययोः ॥ ३६॥
एवं कृते अहं प्रसन्नो जात इत्याह-
तदा वां परितुष्टोऽहममुना वपुषानघे ॥
तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥३७॥
तदेति ॥ वां युवयोः परितस्तुष्टः सर्वभावेन अहमिति,
न मदंशो,नाप्यहं तस्यांशः। परंवपुरिदं प्रदर्शितम् आकारोऽयम् ।
वपुःपदेन पुत्रत्वं स्थापयति । अन्यथा तयोः परमस्नेहो नस्यात् ।
अनघेइति संबोधनं तादृशेऽपि रूपे इच्छाभावार्थम् । तदपि च
बालरूपम् । रूपस्य बलिष्ठत्वात् स्थानात् प्रच्युतिर्भवेदिति तोषे
त्रयं हेतुः-तपः श्रद्धा नित्यं परिचर्या च । एवमपि बहिर्मुखानां न
परितुष्यतीति,हदि भावित इत्युक्तम् ॥ हृदये सर्वदा मानसपूजादिना
भावितः चिन्तितः ॥ ३७॥
तदाऽहमाविर्भूतो जातइति वदन् ,आविर्भावस्य फलनैकव्यनियमार्थं वरप्रार्थनामप्याह-