पृष्ठम्:श्रीसुबोधिनी.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
जन्मप्रकरणम्अध्यायः



 युवां वै ब्रह्मणादिष्टौ प्रजासर्गे यदा ततः॥
 सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः ॥ ३३ ॥


युवामिति ॥ प्रजासर्गे ब्रह्मणा आदिष्टौ तदा ततस्तदनन्तरमेव क्वचिद्देशविशेषे सन्नियम्येन्द्रियग्रामं ततः प्रभृति सम्बन्धमकृत्वा परमं तपस्तेपाथे, सर्वेन्द्रियनिरोधेन सर्वाहारपरिवर्जनेन वाव्यादिनिरोधे विहिते शरीरे सन्तापजननात्तपो भवति । परममुत्कष्टं भगवद्विषयकत्वात् ॥ ३३ ॥

 एवं तस्मिञ्जन्मनि कार्यमुक्तम् । तस्य तपसः प्रकारमाह--


 वर्षवातातपहिमघर्मकालगुणाननु ॥
 सहमानौ श्वासरोधविनिधूतमनोमलौ ॥३४॥


 वर्षवातेति ॥ वर्षवातयोः सहनं प्रावृट्काले अनावृतदेशे अन्तरिक्षे स्थित्वा, आतपसहनं पञ्चाग्निप्रकारेण, हिमसहनं जलवासादिना । धर्मः कालान्तरीयोऽपि । कालगुणा अन्येऽपि शीतादयः साधारणाः । तेषामप्रतीकारेण स्थितिरेव सहनम् । उभावपि सहमानौ ॥ ३४॥

नन्वेकस्तपःकरोत्यपरस्तत्सेवामिति, तादृशयोर्भगवत्सेवामाह-


 शीर्णपर्णानिलाहारावुपशान्तेन चेतसा ॥
 मत्तः कामान भीप्सन्तौ मदाराधनमीहतुः ॥ ३५ ॥


 शीर्णेति ॥ कियत्कालतपसा चित्ते शुद्ध भगवत्सेवैव कार्या, नान्यथेति ज्ञात्वा तपः कुर्वाणावेव परिचर्यां कृतावन्तौ सर्वथा आहाराभावे बहिस्संवेदनाभावे च उभयोः परिचर्या न भवतीति यादृशेन तपसा परिचर्यां कृतवन्तौ स विशेष उच्यते ॥ शीर्णानि पर्णानि, अनिलो वायुश्च आहारो ययोः । परमोपशान्तिः शुद्धसात्त्विकगुणाविर्भावः । स एवोपशमः । सोऽपि