प्राकट्यं वरमार्थनया सह ॥ अल्पबुद्धित्वभोगौ च जन्मत्रितयमेव
च *। त्रिगुणं भगवत्सत्यं लौकिकाद्वैदिकान्महत् *। रूपदर्शनकार्य
च साधनं प्रोच्यते महत् ॥ प्रथमं स्थितिमाह ॥ पूर्वसर्गे
प्रथमब्रह्माण्डे प्रथमकल्पे इतः पूर्वकल्पे वा। साक्षाद्देवकीं प्रत्येवाह
भगवान् । तस्या दीनत्वेन स्नेहातिशयात् ॥ पृश्निरिति नाम ।
त्वमेव पृश्निरभूः स्वायम्भुवे मन्वन्तरे ॥ सतीति सम्बोधनम् ॥
अनेनास्या अधिककृपायां धर्मातिशयो हेतुरुक्तः। तदा तस्मिन्नेव
समये अयमपि मुतपा इति नाम प्रसिद्धः । अयं च प्रजापतिब्रह्मणः
सुतो मरीच्यादिवत् कर्दमवत् स्वभावत एवायमकल्मषः
कामक्रोधलोभादिरहितः ॥ ३२ ॥
एतादृशौ पूर्वं स्थितौ । तादृशौ प्रति ब्रह्मण आज्ञामाह-
माणस्य भावः प्रामाण्यं प्रमाणत्वमिति यावत् । तदर्थमित्यर्थः ।
नच संख्यायामपि तात्पर्यवत्त्वे प्रमाणाभाव इति वाच्यम् ।
श्रुतिसिद्धत्वात् । तथा हि । वैश्वानरं द्वादशकपालं निर्वपेत्
पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति,
यन्नवकपालत्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाचं
दधाति यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति, यद्
द्वादशकपालो जगत्यैवास्मिन् पशून् दधातीतिश्रुतौ कपालेषु
द्वादशसंख्याविधानतात्पर्यं तदवयवभूतसंख्याफलोक्त्या निरूपितम् ।
तत्तत्संख्यायास्तत्तत्फलसाधकत्वोक्तेरपि तत्तत्फलसंख्यासजातीयत्वमेव
प्रयोजकमिति ज्ञेयम् । अष्टाक्षरा गायत्री तेजस्त्रिवृत्, दशाक्षरा
विराडन्नं विराट्, एकादशाक्षरा त्रिष्टुप् , द्वादशाक्षरा जगती,
जागताः पशव इतिश्रुतिभ्यः । ननु सकृत्पुत्रत्वेऽपि वरवाक्यसत्यत्वे
वारत्रयं तथात्वं कुत इत्यत आहुः ॥ त्रिगुणमित्यादि ॥
लौकिकमेकगुणं, द्विगुणं वैदिकं, भगवदीयं त्रिगुणमतः
सर्वाधिकमिहोक्तमिहैव फलतिचेत्तदा सत्यं भवति । वैदिकं तु
जन्मान्तरेऽपि फलतीति तथा । भगवदुक्तं त्वामोक्षं यावन्ति
जन्मानि तेषु सर्वेष्वेव फलतीत्येतदेवैकगुणत्वादिकं तेषु ॥