यते ॥ विश्वामिति ॥ स्वतनौ स्वशरीरे विराजि ब्रह्माण्डाख्ये
निशान्ते सृष्टिसमये यथावकाशं चतुर्दशभुवनलोकात्मकं विभर्षि ।
प्रलये सूक्ष्मतया निवेशनं भवतीति निशान्त इत्युक्तम् ।
किर्मीरतया स्थितिर्निषिद्धा । नन्वत्र किं प्रमाणमित्याशङ्ख्याह ।।
पुरुषः पर इति ।। पुरुषो व्यष्टिः । परः समष्टिः । भवानिति
सम्मत्यऽर्थम् । तेन स्वस्य एतादृङ्माहात्म्यज्ञानवत्त्वसंबोधनम् । एवं
विश्वाधारभूतोऽपि भवान् मम गर्भगोऽभूत् । यद्यपि
विरुद्धसर्वधर्माश्रयस्य भगवतो नेदमाश्चर्यं, तथापि स्वप्रतीत्या आश्चर्यं
मत्वा परिहरति ॥ अहो नृलोकस्य विडम्बनं महदिति ॥ अहो इत्याश्वर्ये ।।
नृलोकस्य मनुष्यमात्रस्य महदेतदनुकरणमिति समाधानम् । महानपि
अल्पमनुकरोति । यथा पुरुषो विडालं, तथापि ब्रह्माण्डविग्रहस्य
परमसूक्ष्मता आश्चर्यरूपेत्याशङ्क्याह । महदिति ॥ अनुकरणं महदिति ।
अनुकरणं सत्यमेव, परमलौकिकमनुकरणम् । अनेन गर्वाभावोऽप्युक्तः ॥ ३१ ॥
एवमुभयोः स्तोत्रे सप्रार्थने कृते भगवान् स्वस्य पुत्रत्वे,तादृशरूपेण प्राकट्ये च हेतुं वद॑स्तयोः पूर्ववृत्तान्तमाह परिज्ञानार्थम्--
श्रीभगवानुवाच ॥
त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति ॥
तदाऽयं सुतपा नाम प्रजापतिरकल्मषः ॥ ३२॥
त्वमेवेति, चतुर्दशभिः ॥ चतुर्दशविद्यानां प्रामाण्यार्थम् ।
पूर्वस्थितिस्तथा कार्य प्रकारो भजनं हरेः *| कालस्तोषश्च
भगवदुक्तवाक्यसंख्यातात्पर्यमाहुः ॥ चतुर्दशेति ॥ पूर्णब्रह्मणो
देवकीपुत्रत्वं न प्रमाणसिद्धमिति भ्रमाभावाय सर्वा अपि विद्या अत्र
प्रमाणानीति ज्ञापनाय तत्समानसंख्यैर्वाक्यैर्भगवतोक्तमित्यर्थः । प्र-