पृष्ठम्:श्रीसुबोधिनी.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


उपसंहरति च । अद इति पदेन च एतज्ज्ञापयति । अवतारो नोपसंहर्त्तव्यः । अलौकिकत्वमात्रमुपसंहर्तव्यमिति । सर्वमेवाऽलौकिकमिति सर्वस्यैवोपसंहारे प्राप्ते यल्लौकिकसमानं तत् स्थापनीयमन्यदुपसंहर्त्तव्यमिति वदन्नलौकिकमंशमाह ॥ शङ्खचक्रेति ॥ शङ्खचक्रगदापद्मान्यायुधान्युपसंहर्तव्यानि । अलौकिकी श्रीश्च उपसंहर्तव्या, भुजानां चतुष्टयं चोपसंहर्त्तव्यम् । द्वयं स्थापनीयम् । उप्लक्षमेतत् ।प्राकृतभावद्यदतिरिक्तं । अविद्यमानोऽपि प्राकुतो भावः स्थापनीयः । यद्यपि चतुर्भुजं रूपं देवादीन् प्रति प्राकृतमेव, तथापि साधारणान् प्रति तादृशमपि न प्रकटनीयमिति प्रार्थना ॥ ३० ॥

 एवं स्तुत्वा प्रार्थयित्वा च विरोधं परिहरति-


 विश्वं यदेतत् स्वतनौ निशान्ते
 यथावकाशं पुरुषः परो भवान् ।।
 बिभर्षि सोऽयं मम गर्भगोऽभूद
 अहो नृलोकस्य विडम्बनं महत् ॥ ३१ ॥

विश्वमिति॥ अथवा अर्द्धोपसंहारेणार्द्धस्थापने सामर्थ्यार्थं विरोधिगुणमनूद्य अन्यतरस्य प्रदर्शनपरत्वेनोपपादयन्ती समर्थ-




 यद्यपीति ॥ केचिद्देवा अपि चतुर्भुजा भवन्तीति तादृशे रूपे देवानां नालौकिकत्वेन भानम् । इतरेषां तु भवतीति तथा ॥ तादृश मपीति ॥ उपसंहृतालौकिकप्रभं चतुर्भुजाकारमात्रमपीत्यर्थः ॥ रूपे चेदमित्यनेन कंसादीनामदर्शनं प्रार्थितम् । अत एव, मांसदृशामित्युक्तम् । अनेन तु तद्दर्शनेऽपि मनुष्यमात्रस्य तथा दर्शनं नास्मद्धितमिति तदभावः प्रार्थितोऽतो नान्यतरवैयर्थ्यं शङ्कनीयम् । किञ्च यद्यप्यायेनैव द्वितीयचारितार्थ्यं भवति, तथापि रूपपदमात्रं ध्यान विष्ण्यपदं च श्रुत्वा सर्वांशेन तिरोधानं हरिर्मा करोत्विति विशेष प्रार्थनं द्वितीयं कृतमिति ज्ञेयम् ॥