जानीयात् स्वयमागत्य युद्धं कुर्यात् । अत एव स दोषस्तदवस्थ
इति । तस्य जन्माज्ञानं प्रार्थयति-
जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।।
समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ २९ ॥
जन्म त इति ॥ असौ कंसस्ते जन्म मा विद्यात् ।
यतोऽयं पापः । तर्हि मत्स्वरूपं न जानासीतिचेत्तत्राह ।।
मधुसूदन इति ॥ यद्यप्येतज्जानीमस्तथापि मध्यमपक्षशङ्कया
प्रार्थ्यते । ननु मध्यमपक्षे को दोपः । अविश्वासस्तु न
कर्त्तव्य इतिचेत्तत्राह ।। भवद्धेतोः कंसादहं सम्यगुद्विजे ॥
विश्वासः कर्त्तव्य इति चेत तत्राह ।। अधीरधीरिति ॥
न हि भगवति उत्पन्ने परमानन्दे कोऽपि क्लेशहेतुर्भवितुमुचितः।
भवद्धतोरित्यनेनैतज्ज्ञापयति ॥२९।।
यद्ययं जानीयादस्मादुत्पन्नो भगवानन्यत्र तिष्ठतीति तदा निर्बन्धेन समानयनं वा प्रार्थयेत् पूर्वं प्रतिज्ञातत्वात् । अतोऽस्य ज्ञानाभाव एवोचितः । रूपान्तरस्वीकारे त्वन्यत्रापि स्थापयितुं शक्यते, नत्वनेन रूपेणेत्युपसंहारं प्रार्थयति--
उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।।
शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३० ॥
उपसंहरेति ॥ अदो वेदवेद्यमलौकिकं रूपं लोके उचितं
न भवतीत्युपसंहर ॥ विश्वात्मन्निति रूपग्रहणे उपसंहारे च
सामर्थ्यं द्योतितम् । स हि विश्वास्मिन् सर्वाण्येव रूपाणि गृह्णाति
इदानीं मारणमन्यत्र गमनं च मध्यमः पक्षः । एवं सत्यपि यदि
तममारयित्वैवान्यत्र गतिर्भवति तदा स्वतस्तन्मारणानिवृत्तिर्भवतीति
तथापि दोषानिवृत्तिरित्याहुः,मध्यमपक्षे स्वतइत्यादिना॥ तेन जन्मा-
ऽज्ञानस्यावश्यकत्वमुक्तं भवति ॥
२०