संभवादुपसंहारोऽपि प्रार्थ्यः । भगिनीपतिश्चेति कदाचिन्न मार-
येदित्याशङ्काव्युदासार्थमाह ॥ घोरादिति ॥ प्रार्थनीयसर्वदान-
सामार्थं,स त्वमिति । स पूर्वोक्तधर्म एव त्वम् ॥घोरो निर्दयो
भयानकः क्रूर इति यावत् । उपायेन विषादिना अमारणार्थम्,
उग्रसेनात्मजादित्युक्तम् ॥ उग्रसेनस्य शरीरजः कथं वध्यो भवेत् ।
घोरत्वात् स मारयेदेव ॥ त्रस्तानिति, पूर्वपुत्रमारणेन ॥
त्राहि पालय । उभयपदी धातुरयं प्रचुरप्रयोगानिश्चीयते । ननु
पर्यवसाने वाधाभावादिदानीं मारणपक्षे किमिति रक्षा प्रार्थ्यत
इतिचेत् तत्राह ॥ भृत्यवित्रासहासीति ॥ भृत्यानामस्मदादीनां
वित्रासं भयं हन्तीति तथा । असीति तव संकल्पः । यथा गन्धः
पृथिव्या एव । एवं भगवतो भक्तदुःखनिवर्त्तकत्वमेव । यथा-
ऽस्मद्रक्षा इदानीममारणेन अन्यत्र गमने च कर्त्तव्या तथा स्थितौ
रूपोपसंहारश्च कर्त्तव्य इत्याह । रूपं चेदमिति ॥ सर्वदा अनेन
रूपेण स्थातुमयुक्तमिति ॥ इदं रूपं मांसदृशां चर्मचक्षुषां मा -
कृषीष्ठाः । तर्हि कस्यापि मुक्तिर्न स्यादित्याशङ्क्याह॥
ध्यानधिष्ण्यमिति ॥ ध्यानमेव धिष्ण्यं स्थानं यस्य । ध्यान एव
प्रकाशो भवतु, न बहिः । अतः सर्वं सुस्थं भविष्यतीति भावः ।
मा कृषीष्ठा इत्यनेन चैतज्ज्ञापितम् । अयं स्वेच्छयैव प्रकटीकरोति ।
वस्तुतस्तु इन्द्रियावेद्यमेव । मांसदृशामित्यनेन दैत्या एते
मांसभक्षका मांसमेव पश्यन्ति सर्वत्र, न तु विहितं निषिद्धं वा
विचारयन्तीत्युक्तम् । चकारस्तु क्रमसमुच्चयार्थः ।। २८॥
अन्यतरकरणाभावाय मध्यमपक्षे स्वतो निवृत्तावपि कंसश्चे-
रूपानुपसंहारातिरिक्तबाधकाभावात्तत् कृत्वान्यत्र स्थेयमिति भावः।
एतदेवोक्तम्, अनुपसंहार इत्यादिना ॥ ॥ * ॥ ॥ अन्यतरेति ॥ इदानी
मेव मारणं लोके चैतद्रूपदर्शनमित्येतयोरन्यतरस्थ तथात्वायेत्यर्थः ।