अलौकिको लोक एव ज्ञापकः शोभातिशयो निरूपितः।
त्रितयाऽपेक्षयाप्यतिशयः । अनेनैव विश्वासेन अद्यैव यदैव
चरणप्राप्तिस्तदैव स्वस्थः शेते मृत्युनिवारणार्थं यनं च न
करोति । मृत्युः पुनः स्वत एव निवर्त्तते । भगवचरणारविन्दमत्र
वर्त्तत इति अस्मादसाध्यादपगमनं युक्तमेव । शास्त्रं तु प्रमाणम् ।
संवादस्तु अलौकिकभावसिद्धिः । कालनियन्ता च भगवान् ।
अतोऽनुभवप्रमाणयुक्तयोऽत्रैव सन्तीति न पूर्ववदस्मिन् मार्गे शङ्का ।
निष्कपटतया प्रवृत्तौ तु नात्र व्यभिचारः ॥ २७॥
एवं शरणागतौ हेतुमुपपाद्य त्रयं प्रार्थयति-
स त्वं घोरादुग्रसेनात्मजान्न-
स्त्राहि त्रस्त्रान् भृत्यवित्रासहासि ॥
रूपं चेदं पौरुषं ध्यानधिष्ण्यं
मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ।। २८॥
स त्वमित्यादि त्रिभिः।। अत्रावसरे त्रयं संभवति ।
भगवान् इदानीमेवान्तर्हितो भवेत् । पश्चात् स्वेच्छयाऽन्यत्र स्थितः
कंसं मारयेत् । तदिमां कथां कंसः श्रुत्वा
मारयेदस्माञ्ज्ञानदापनयोर्नियोगात् । अतो रक्षा प्रार्थनीया ।
इदानी वा कंसं मारयेत् ततः कंसपक्षपातिनः पश्चादस्मान् मारयेयुः ।
तदर्थमिदं रूपं लौकिके नख्यापनीयमितिप्रार्थनीयम्। एवंरूपेणात्रैव
च स्थितिरपि संभवति । तदा अलौकिकं दृष्ट्वा प्राकृतो लोको द्वेष
कुर्याद्, अस्मदादयश्च शीघ्रं मुच्येरन्, भक्तिरसानुभवश्व न स्याद्
मर्यादा च भज्येतेति । अतो रूपाप्रदर्शनमार्थना युक्तैव ।
एतत्सर्वदोषपरिहारार्थ सांप्रतं कंसस्याज्ञानं भवत्विति प्रार्थना । इदानीं
मारणे वा युद्धसमये स्वजीवनार्थम् । अनुपसंहारे पूर्वोक्तपक्ष
इदानी मारणे वेत्यादि ॥ रक्षाप्रार्थनेति शेषः । अस्मिन् पक्षे