दुद्बोधकः। तच्छरणं गत एव योगी, तदा तया प्रार्थितः कालः
शीघ्रं न भक्षयति । तस्य च अध्यात्मा वेदः । तदुक्तकर्मणाऽपि
विलम्बो भवति । अन्ये च सर्वे देवाः
पुराणोक्तास्तस्याऽऽधिभौतिकरूपाणि । तेऽपि विलम्बहेतवो भवन्ति ।
इमे त्रिविधा अपि धर्ममार्गवर्तिनो निरन्तरमेकनिष्ठास्तत्प्रवणाः । ये
पुनलौकिकाः साधारणाः शीघ्रं भक्षणार्थमेव स्थापिता ओदनभूताः,
ते चेत् कालातिकमार्थं यतन्ते तदा कालकार्यं स्वस्मिन्
रोगादिकमनुभूय कालनिवर्तकत्वेन श्रुतान् बहूनेव धर्मान् कर्तुं
यतन्ते । तद्व्यालभीतस्य पलायनं मूषकस्येवाग्रे पतितस्य । मृत्युः
कालस्य मुखम् । सोऽपि व्यालः । भयहेतुवाचको व्यालशब्दो
मुखहेतुक एव । यत्र कापि गच्छन् क्षुत्पिपासे
जरावलीपलिताधुञ्चनीचधर्माननुभवति । अतः कालकार्यदर्शनाद्भयं
न निवर्तते । देवत्वमानुषत्वे वृक्षत्वे वा बहुकालस्थितधर्मेषु भयं
निवर्तत इत्याशङ्क्या, लोकान् सर्वानित्युक्तम् । निर्भयं भयाभावम् ।
अतः केनाप्युपायेन मृत्युर्न निवर्तत इति निर्भयं नाध्यगच्छद्
भयनिवर्त्तकस्थानं वा । शास्त्राऽनुभवयोः संवादे हि तन्निवर्तते । ’
येऽपि पूर्वमुक्तास्त्रिविधास्ते कालाधीना इत्यवश्यभक्षकत्वे
न समर्था भवन्ति । प्रार्थना हि दुर्बला । एवं शरणान्वेषणाऽर्थ
परिभ्रमणे क्रियमाणे सर्वत्र प्रवर्तको भगवान् कदाचित
परितुष्यति । तदा भगवचरणप्राप्तिः । सत्सङ्गो भागवतं चेति
भगवच्चरणद्वयमाधिभौतिकं, ज्ञानं भक्तिश्चाध्यात्मिकं, चरणावेव
प्रसन्नस्याधिदैविको। तन्मध्ये अन्यतरप्राप्तावपि कृतार्थतेति
ज्ञापयितुं, त्वत्पादाब्जमित्युक्तम् ॥ भगवत्सहितं भगवच्चरणारविन्दं
प्राप्य यदृच्छया भगवदिच्छया । कालसंबन्धाभावाय यदृच्छयेत्युक्तम् ।
नियतकालस्य यदृच्छात्वाभावात् । अब्जपदेन च
पृष्ठम्:श्रीसुबोधिनी.pdf/१६०
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे