पृष्ठम्:श्रीसुबोधिनी.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
जन्मप्रकरणम्अध्यायः


गृहीतः। द्विपरार्द्धावसानत्वाच्चेष्टारूपकालस्य संवत्सरो मध्यम इति ततोऽप्याह ॥ महीयानिति॥ एवं यस्य चेष्टा कालो,यश्चावशिष्यते, यश्चाधिदैविकः सर्वकारणकारणभूतस्तं त्वां प्रपद्ये शरणं गच्छामि । अनेन बालकः पुत्रः कथं शरणार्ह इति निरस्तम् । तं त्वामित्यत्र प्रमाणं पूर्वमुक्तमेव- आहुरिति, अध्यात्मदीप इति च, विष्णुरिति च । एवं सर्वरूपोऽपि यदि रक्षादिकं नाविष्कुर्यातदा शरणगतिरप्रयोजिकेति तद्व्यावृत्त्यर्थमाह ॥ ईशानमिति ॥ यत्र भगवत एतावन्तो धर्माः स ईदृश एव भवति । ऐश्वर्यं विलम्बं न सहते, न चोपेक्षते । नन्वीश्वरो दैत्यपक्षपातीचेत्तदापि कार्यं न सिद्ध्यतीति, तदर्थमाह ॥ क्षेमधामेति ॥ क्षेमाख्यं शुद्ध- सत्त्वं धाम यस्य । अतः शिष्टानामेव पक्षपातं करिष्यति इति न काचिचिन्ता । आधारभूरूपधर्मस्यैव प्राधान्यख्यापनार्थं लिङ्गव्यत्ययः ॥ २६ ॥

 एवं भगवतो रूपत्रयं, प्रपत्तिं च निरूप्य तस्याः प्रपत्तेः प्रकृतोपयोगित्वाय हेतुं निरूपयति-


 मयों मृत्युव्यालभीतः पलायन
 सर्वांल्लोकान् निर्भयं नाध्यगच्छत् ।।
 त्वत्पादाब्जं प्राप्य यदृच्छयाद्य
 स्वस्थः शेते मृत्युरस्मादपैति ॥ २७॥


 मर्त्य इति ॥ अतीन्द्रियः कालः । लोके स्वज्ञापनार्थं स्वप्रतिकृतिं सर्पमुत्पादितवान् । लौकिकास्त्वलौकिकं तद्द्वारैव प्रतिपद्यन्ते । यथा सिंहप्रतिकृतिर्ग्रामसिंहः । एवं बिडालगवादयश्च व्याघ्रगवयादीनां प्रतिकृतिरूपाः । कालः स्वभक्ष्यमेव सृजति । अतः कालसृष्टा मर्त्त्या इत्युच्यन्ते । तस्य च भार्या कुण्डलिनी शक्तिः स्वभर्तृज्ञापिका सर्वेषु पुरुषदेहेषु तिष्ठति । योगो हि त-