नि तेषामपि लयमाशङ्क्य तन्निवृत्त्यर्थमाह ॥ अशेषसंज्ञ इति ॥
अशेषाः सर्वाः संज्ञा यस्य । सर्वशब्दवाच्यो भगवानेक एवेति
एक एव शिष्यत इत्यर्थः ॥ २५ ॥
एवमाधिभौतिकानां सर्वेषां लयस्थानभूतोऽध्यात्मा उक्तः। आधिभौतिक रूपमाह-
योऽयं कालस्तस्य तेऽव्यक्तबन्धो
चेष्टामाहुश्चेष्टते येन विश्वम् ॥
निमेषादिवत्सरान्तो महीयाँ-
स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६ ॥
योऽयं काल इति ॥ आधिभौतिकानामाधिभौतिकभूतो
भगवान् ,न त्वाधिभौतिक एव । तथात्वज्ञापकं,कालो यस्य चेष्टा
इति । कालप्रेरितानि सर्वाण्येवाधिभौतिकानि । कालः सर्वेषां
निमित्तभूतः । तस्य सर्वेषां मूलभूतस्य स एव भवानिति ते तव
चेष्टामाहुः । ननु भगवतश्चेष्टासत्त्वे किं प्रमाणं,चेष्टाया वा कालत्वे
तत्र, आहुरिति चेष्टायाः कालत्वे मानमुक्तम् । चेष्टासत्वे
मानमाह ॥ चेष्टते येन विश्वमिति ॥ येन कालेन विश्वमेव चेष्टते ।
न हि कारणस्य चेष्टाभावे कार्ये चेष्टा भवति । कालवशाच चेष्टा
चेष्टायाः कर्मरूपत्वात् । कर्म च कालजनितम् । काले कर्म-
विधानात् । अतो भगवच्चेष्टारूपः कालः । ननु प्रकृतिकारणपक्षे
तद्द्वारा कार्यपक्षे वा न चेष्टारूपः कालः सिद्ध्येदित्याशङ्क्याह ।।
अव्यक्तवन्धो इति ॥ अव्यक्तस्य प्रकृतेर्वन्धुः सर्वकार्यकर्ता ।
अतः प्राकृतकार्यपक्षेऽपि चेष्टारूपः कालः। आधिदैविककालस्य
भगवद्रूपत्वात् तद्व्यावृत्त्यर्थमाह || निमेषादिर्वत्सरान्त इति ॥
यद्यपि परमाणुकाल आदिभूतस्तथापि
परमाण्वादि-
लवान्तानामतिसूक्ष्मत्वाद्व्यवहारानौपयिकत्वमाशङ्क्या निमेपादिरेव