व्यक्तेऽव्यक्तं कालवेगेन याते
भवानेकः शिष्यतेऽशेषसंज्ञः ॥ २५ ॥
नष्टे लोक इति । आधिभौतिकस्य सर्वस्याध्यात्मन्येव लयः ।
तस्यैवात्मत्वप्रतिपादनात् । दृश्यते च स्वप्नादौ बाह्याप्रकाशेऽपि
आन्तरः प्रकाशः। तस्मादयं भगवानात्मा । अन्यस्य लयाऽवधित्वं
नास्तीति तस्य लयाऽवधित्वमाह ।। लोके प्रकाशे, चतुर्द्दशलोकेषु च
नष्टेषु सर्वनाशो नियतकाल इति ज्ञापयितुमाह ॥ द्विपरार्द्धावसान इति ॥
ब्रह्मण आयुः परशब्देनोच्यते । तस्यार्द्धं परार्द्धम् । पराईद्वये
ब्रह्मसमाप्तिः । बन्धमोक्षव्यवस्था लोके वक्तुं ब्रह्मण आयुषोऽव्यवहारो
ब्रह्मण उत्तरायुष्येव ब्रह्माण्डस्थानां मुक्तिरिति ज्ञापनार्थः ।
द्विपरार्द्धस्याऽप्यवसाने समाप्तौ ब्रह्माण्डस्य तु प्रलयस्तदैव भवति ।
तदा तत्त्वानि तिष्ठन्ति । तेषामपि प्रलयमाह ॥ महाभूतेष्वादिभूतं
गतेष्विति ॥ आदिभूतशब्देनाहङ्कार उच्यते । अग्रे महत्तत्त्वस्याऽपि
प्रकृतौ लयस्य वक्ष्यमाणत्वात् । अहङ्कारोऽपि महति लीयत इति
ज्ञापितम् । भूतानामादिभूत इति व्युत्पत्त्या आदिभूतशब्दवाच्योऽहङ्कारो
भवति । आदौ भूतो जातश्चेद् महत्तत्त्वमेव । व्यक्ते महत्तत्त्वे
प्रकृतिं गते सति व्यक्ताव्यक्तपदाभ्यामेतत् सूचयति । अक्षरात्
प्रकृतिपुरुषविभागपक्षे प्रकृतिपुरुषयोरप्यक्षरे लयः ।
कालादीनामव्यक्ततैव । किं बहुना सर्वमेव व्यक्तमव्यक्त प्रविष्टम् ।
तत्र प्रवेशे कालवेग एव हेतुः । भगवतः सर्वोपसंहारेच्छायां
सर्वोपसंहारार्थमाधिकारी कालो वेगवत्तरो भवति । एवं स्वयमप्यक्षरे ।
अक्षरं पुरुषोत्तमे पुरुषोत्तमाभिन्ने वा अक्षरे । तदा भवानेव एकः
शिष्यते । तस्य भगवतः स्वरूपाणि यानि स्थितान्याधिदैविका-
पुरुषोत्तमाभिन्न इति ॥ पुरुषोत्तमचरणात्मक इत्यर्थः ॥