पृष्ठम्:श्रीसुबोधिनी.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


तथापि नवधा वैलक्षण्यस्य वक्तव्यत्वान्नवविशेषणान्युक्तानि । तादृशमिदमेव रूपम् । नवविधानां प्राणिनां स्वदोषेणैव नवविधत्वप्रतीतिः। यथा भ्रमरिकादृष्टया गृहीता भूमिरपि भ्रान्तेव दृश्यते । तदपि तस्यैव दृष्ट्या । एवमत्रापि ब्रह्मविदां दृष्ट्या भगवान् वर्णितगुण एव । अन्यथा तदभिव्यक्त्यर्थं प्रयत्नं न कुर्युः ब्रह्मादयोऽपि पश्चादुत्पन्नं न नमस्कुर्युः, सायुज्यं चाऽत्र नप्राप्नुयुरेतज्ज्ञानेन च सर्वज्ञान भवेयुरेतन्निष्ठाश्च निर्गुणा न भवेयुरेतद्भजनेन च सर्वविकाररहिता न भवेयुः, सर्वेषु पदार्थेष्वेतं च न पश्येयुरेतज्ज्ञानेन च प्रपञ्चो न निवर्तेत । एतत्कृपया च ब्रह्मनिष्ठा न भवेयुः । अतोऽयमेतादृश एव । नन्वेतत् सर्वं सर्वज्ञान्युपास्यत्वे भगवतः सम्भवति । न त्विदानीमेवाऽऽविर्भूतस्य तथात्वं वक्तुं शक्यत इत्याशङ्क्याह ॥ स त्वमिति ॥ यदेतादृशं तत् त्वमेव । तत्र हेतुः ॥ विष्णुरिति ॥ विष्णुर्हि पूर्वोक्तमकारेण सर्वोपास्यः । स एव सर्वेषामधिदेवः । स एवाविर्भूत इति ब्रह्मवाक्यादवसीयते । नन्वेवमप्यंशावतारः स्यात्, ततश्च मूलत्वाभावादुक्तं सर्वं बाधितमित्यत आह ॥ साक्षादिति ॥ ननु वाक्यं गौणमपि भवति, स्तुतिपरमपि भवति । तस्मात् कथं निर्णयः ? इतिचेत् तत्राह ।। अध्यात्मदीप इति ॥ अध्यात्मं मदन्तःकरणं वस्तुतो जडं मुग्धं सर्वशास्त्रविहीनम्। तचेदेवंप्रकाशयुक्तं त्वत्सान्निध्यात् तदेवास्य कारणमित्यवसीयते।आधिदैविकस्यैवाध्यात्मप्रकाशजनकत्वात् । अतो मदनुभवेनापि भवानुक्तरूप एव । कार्यं चाव्यभिचारिलिङ्गम् ॥ २४॥

 एवमाधिदैविकरूपं निरूप्याध्यात्मिकं रूपं निरूपयति-


 नष्टे लोके द्विपरार्द्धावसाने
 महाभूतेष्वादिभूतं गतेषु ॥