श्रीदेवक्युवाच ॥
रूपं यत्तत् प्राहुरव्यक्तमाद्यं
ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ॥
सत्तामात्रं निर्विशेषं निरीहं
स त्वं साक्षाद् विष्णुरध्यात्मदीपः ॥ २४ ॥
कारणं भवति । गुणानामपि कारणत्वे भगवत्कारणता
न स्यात् । स्वातन्त्र्याभावात् । सदंशा एवं गुणा न चिति
संभवन्ति । यत्रैव भूतेन्द्रियान्तःकरणानि तदेव सगुणम् ।
तदेव कारणं भवति यत् प्रपञ्चविलक्षणम् ।
प्रपश्चस्तूत्पत्त्यादिभावविकारयुक्तः । अतो निर्विकारमङ्गीकर्त्तव्यम् ।
लौकिकानि च ज्ञानानि विकारयुक्तानि रूपादिगुणयुक्तानि
चेन्द्रियादिभिश्च प्रकाश्यन्ते। विषयकृतं वैलक्षण्यमानन्दांशे
निराकरणीयमित्येतदर्थमाह ॥ सत्तामात्रमिति॥ सत्ता विद्यमानता
कालत्रयावाधितसत्ता वा । सर्वमेव हि जगत् सद्रूपमपि
विशेषनामरूपधर्मवद्भवति । यावद्विशेषनिर्मुक्तं सामान्यं
न भविष्यतीत्याशक्य लौकिक एव विषये इयं व्याप्तिः ।
न त्वलौकिक इति सत्तामात्रमपि निर्विशेषमित्याह ।
अन्यथा पौनरुक्त्यं स्यात् । विशेषा हि व्यावर्त्तकाः ।
मूलसत्तायां व्यावर्त्त्याभावात् किं विशेषेण । कार्ये तु सा
सर्वत्राऽनुस्यूतेति कार्यं न व्यावर्त्तनीयम् । अन्यथा तस्य
कारणतैव नस्यात् घटपटयोरिव । पूर्णमदः
पूर्णमिदमित्यादिश्रुतौ सर्वचेष्टारहितमेव कारणं भवति ।
कार्य सर्वमेव चेष्टमानम् । आकाशाऽऽदेरपि
शब्दजननलक्षणा चेष्टा वर्त्तत एव । आवरणाऽपगमे
कार्यापगमवदाकाशापगमस्यापि दृष्टत्वादन्धकारवदीहा तत्रापि ।
ब्रह्मणि तु आवरकासम्भवादव्यवहार्यत्वाच्च निरीहत्वं
सिद्धमेव यद्यप्येकस्मिन्नपि विशेषणे सर्वे धर्माः क्रोडीकर्तुं
शक्यन्ते ।