पृष्ठम्:श्रीसुबोधिनी.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


रान्तरेण रक्षां प्रार्थयन्त्यज्ञानमपि प्रार्थयते। अन्यथा प्रथमपक्ष एव न सिद्ध्येत् । रूपोपसंहारं च प्रार्थयते । सर्वाधिक्ये सर्वद्वेषसम्भवात् । सर्वमारणं चाशक्यम् । अलौकिके च शीघ्रमुपसंहारश्च स्यात् । अतः केवलं स्वार्थमुपसंहारप्रार्थनाद्वयं तु प्रकृतोपयोगि । एवं प्रार्थनात्रयं स्वस्य गर्वाभावार्थम् । इदं न जननरूपं, किन्तु नवदऽनुकरणरूपमिति भगवदवतारं निरूपयति ।। रूपनयं तथा हेतुः प्रार्थनात्रितयं तथा *। नटत्वमिति विज्ञानं स्वस्य यादृक् तथोदितम् ॥ आदौ भगवानाधिदैविक इति वदन्ती स्वाभिज्ञानप्रमाणप्रसिद्ध्या निरूपयति ॥ इदं रूपं तदेव यत् सर्वैराधिदैविकत्वेन उच्यते । द्वयमन्यल्लोकसिद्धमलौकित्कं त्वाधिदैविकमेव । अन्यथा प्रमाणानामनुवादकत्वं स्यात् । अत इदं रूपं तदेव । किं तदित्याकाङ्क्षायामाह ॥ यत्तत् प्राहुरिति ।। यत्तदोरानुपूर्येण निरूपणमाकाङ्क्षावैपरीत्येऽपि स्वानुभवदाढ्यार्थम् । नन्वाधिदैविकमेतद्भवितुं नार्हति वैलक्षण्यादित्याशङ्क्या वैलक्षण्यहेतुभूतान् धर्मानत्रैव साधयति, अव्यक्तमित्यादिनवभिः पदैः ॥ नवधा हि जगत् । ताद्विलक्षणं ब्रह्म नवधा निरूप्यते। जगद्धर्माश्च तस्मिन् रूपे प्रतीयन्ते । तत्र, अव्यक्तादीनि भूतानीति वाक्याद् अव्यक्तं मूलरूपं,व्यक्तं तु जगत् । इदं तु व्यक्तमिति लोकप्रतीतिः। मूलभूतं त्वाद्यं भवति । इदं त्वाधुनिकम् । जगच्च स्वरूपकृतं कालकृतं च । वैलक्षण्यमुक्तं पदद्वयेन। देशकृतं वैलक्षण्यं वदन् परिमाणेन तदाऽऽह ॥ ब्रह्मेति ।। बृहत्वाद् बृंहणत्वाच्च ब्रह्म मूलभूतम् । जगत्तु परिच्छिन्नमबृंहितं च तथैवरूपम् । एवं सदंशेन वैलक्षण्यत्रयं निरूपितम् । चिदंशेनापि त्रयमाह ॥ ज्योतिर्निर्गुणं निर्विकारमिति ॥ प्रकाशकं तच्चैतन्यं जगत् प्रकाशयति । अन्यथा जगदाभिव्यक्तिर्न स्यात् । त्रिगुणात्मकं च जगत् । त्रिगुणातीतमेव हि