देवकी रूपोपसंहारं कंसस्य भगवज्जन्माज्ञानं च प्रार्थयितुं
प्रथमतः स्तौतीत्याह--
श्रीशुक उदाच॥
अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम् ॥
देवकी तमुपाधावत् कंसाद्भीता सुविस्मिता ॥ २३॥
अथैनमिति ॥ स्वस्यैवायं पुत्र इति ज्ञातवती । तथा
बुद्धेरुत्पादितत्वात् । परं स
पुत्रश्चतुर्भुजादिलक्षणैर्लोकप्रसिद्धभगवतुल्योऽयमिति
ज्ञात्वा स्वबुद्ध्या स्मृतिपुराणेषु प्रसिद्धं भगवत्स्वरूपं
प्रकृतेऽनुवर्णनीयमिति तदर्थमाह। महापुरुषस्य पुरुषोत्तमस्य
लक्षणानि यत्र तं भगवन्तम् उपाधावत् ॥ शरणं गता ।
स्तुत्वैव शरणं गमिष्यति । भगवन्निमित्तमेव कंसाद्भीता । तर्हि
भगवत्स्वरूपज्ञानाद् भयमेव कथं न निवर्तयतीत्याशङ्क्याह ।।
सुविस्मितेति ॥ आश्चर्यरस एव तस्या उत्पन्नो, न तु निर्धारितं
ज्ञानं जातं येन भयं निवर्त्तेतेत्यर्थः ॥ शुचिस्मितेति पाठे
भगवस्तोत्रज्ञानार्थं तस्याः पातिव्रत्यादिधर्मो निरूपितः ॥ अथेति
भिन्नप्रक्रमे। नतु वेदादिप्रकारेण । अन्यथा पौनरुक्त्यं स्यात् ॥२३॥
शरणं गता देवकी अष्टभिः स्तोत्रमाह । आधिदैविकमाध्यात्मिकमाधिभौतिकमिति भगवतो रूपत्रयमादौ निरूप्य शरणागमने हेतुं चोक्त्वा प्रकृते रक्षां भगवत्स्वरूपाज्ञानं द्वयं प्रार्थयते । इदानीं मारणे युद्धार्थं प्रवृत्तावेव पूर्वज्ञानसदृशत्वात् प्राणा न स्थास्यन्ति । अतस्तेन प्रकारेण रक्षा न कर्त्तव्या । प्रका-
इदानीं मारण इत्यादि ॥ युद्धे भगवतैव तन्मारणसम्भवेऽपि पूर्वमुद्यतायुधेन बाला मारिता इत्यधुनाऽपि तादृशतद्दर्शनं पूर्वज्ञानसदृशम् । तथाच तन्मात्रेणैव तथेत्यर्थः ॥अन्यथेति॥ जन्माज्ञानाभाचे प्राणास्थितिरेव स्यादित्यर्थः॥ न सिद्ध्येदिति पाठे प्रथमः पक्षो रक्षा॥