सेनारूपास्तासां यूथपा महान्तः । तैर्नितरां व्यूह्यमानाः
परिपाल्यमानाः प्रेर्यमाणा वा चमूर्निहनिष्यसे नितरां मारयिष्यसे ।
अतो रक्षार्थमेव दैत्यवधः । भगवत्सांनिध्यात् सर्वज्ञता तस्य ।
यस्मिन् विदिते सर्वमिदं विदितं भवतीत्यार्षज्ञानं वा ।। २१ ।।
एवमपि ज्ञाते भयं निवृत्तमिति लौकिकस्य बलिष्ठत्वज्ञापनाय भयाद्भगवन्तं विज्ञापयति--
अयं त्वसभ्यस्तव जन्म नो गृहे।
श्रुत्वाऽग्रजांस्ते न्यवधीत् सुरेश्वर ॥
स तेऽवतारं पुरुषैः समर्पितं
श्रुत्वाऽधुनैवाभिसरत्युदायुधः ॥ २२॥
अयं त्वसभ्य इति ॥ तुशब्दः पूर्वार्थं स्तुतिलक्षणं व्याव-
र्तयति । भगवानवतीर्ण इति सतामेव मुखं भवति, न त्वसताम् ।
अयं त्वसभ्यः, इममर्थमज्ञाप्यः । अत एव तव जन्म नो
गृहे श्रुत्वा ते अग्रजान् मम षट्पुत्रान्न्यवधीत् । सुराणामीश्वरेति
सम्बोधनं पक्षपातार्थम् । तर्हि किमधुना कर्त्तव्यमितिचेत्
तत्राह ॥ स एव क्रूरात्मा कंसो रक्षकैः पुरुषैस्तेऽवतारं निवेदितं
श्रुत्वा उदायुधः सन्नधुनैव निकट एवाभिसरत्यागच्छति ।
वर्तमानसामीप्ये वर्तमानवद्वेति वर्तमानप्रयोगः। ईश्वरे निवेदनमात्रं
सेवककार्यम् । कर्त्तव्यं तु प्रभुरेव जानातीत्यस्य तूष्णीम्भावः ।
अभिप्रायस्तु यदीदानीं मारणीयस्तदा स्थातव्यं, नोचेदन्यत्र
गन्तव्यमिति ॥ २२॥
इदानीं मारणे गुप्ततया गोकुलवासिभिः सह क्रीडोद्धारादिकं न भविष्यतीति तत् कृत्वा पश्चान्मारणम् । अतः पितुरभिप्रायादन्यत्र गतवानिति लक्ष्यते । तूष्णीं स्थिते बसुदेवे