सर्गाय रक्तं रजसोपबृंहितं
कृष्णं च वर्णं तमसा जनात्यये ॥२०॥
सत्वमिति ॥ यथा पिता कृषीवलादिर्वा
पुत्राऽन्नादेरुत्पादकः । यथा वा ब्रह्मादयो,
वृष्टिद्वारेन्द्रादिस्ते गुणावतारा उच्यन्ते । तादृशस्त्वनिरुद्धः।
तत्र ब्रह्मविष्णुशिवानामेव प्रत्येकगुणैरुत्पत्त्यादिनियामकत्वं
न त्वनिरुद्धस्येत्याशङ्क्या तस्यैव त्रितयमाह ॥ त्रिलोकस्थितये
स्वमायया शान्त्या सत्त्वं विभर्षि। तस्य सत्त्वस्य स्वरूपमाह ।।
आत्मनः शुक्लं वर्णमिति।। खल्विति प्रसिद्धिः। कृते
शुक्लश्चतुर्बाहुरित्यादिवाक्यादुपाधिकालरूपाण्येवास्मिन् पक्षे
भगवद्रूपाणि । तदर्थ गुणान् वदन् रूपाणि वदति ॥ सर्गाय
रक्तरूपं विभपीति सम्बन्धः । तस्य रूपस्य सहजत्वाभावायाह ।।
रजसोपबृंहितमिति ॥ तथैव कृष्णं वर्णं जनानामत्यये नाशार्थं
बिभर्षीति सम्बन्धः ॥ २० ॥
सङ्कर्षणात्मकमाह-
त्वमस्य लोकस्य विभो रिरक्षिषु-
र्गृहेऽवतीर्णोऽसि ममाऽखिलेश्वर ॥
राजन्यसंज्ञाऽसुरकोटियूथपै-
र्निव्यूह्यमाना निहनिष्यसे चमूः ॥ २१॥
त्वमस्येति ॥ अस्य लोकस्य रिरक्षिषुः रक्षितुमिच्छुः सन्
मे गृहेऽवतीर्णोऽसि । अवश्यरक्षायां हेतुः ॥ अखिलेश्वरेति ॥
| विभुरिति सामर्थ्यम् । इदं सङ्कर्षणकार्यं, देवान् प्रति
तद्वेषिदैत्यवधादेव, न तु सर्वनाशकत्वेन । अतो देवांशो
जगतो रक्षक एव दैत्यानामेव निवारकस्तदाह । राजन्यसंज्ञेति ॥
राजन्या राजान इति संज्ञामात्रं, वस्तुतस्त्वसुरा एव । तेषां कोटयः