पृष्ठम्:श्रीसुबोधिनी.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


ब्रह्मणि विरोधाभावान्नैवं कल्पनोचिता । किञ्च, न केवलं भगवान् ब्रह्मरूप एव,किन्त्वीश्वरोऽपि । ईश्वरत्वेन जगत्कर्तृत्वं ब्रह्मत्वेनाविकृतत्वं च द्वयमुपपद्यते । देशकालस्वरूपावस्थाभेदा अपि नापेक्ष्यन्ते । ईश्वरत्वाद् ब्रह्मत्वाच्च । आज्ञाशक्तिरीश्वरे अप्रतिहता,सर्वभवनसामर्थ्यं च ब्रह्मणि । तस्माद् विरोधाभावान्नैकतरपरित्याग उचितः । किञ्च प्रतीत्यनुरोधेन हि विरोधः । प्रतीतिस्त्वन्यथापि व्याख्यातुं शक्या । न हीयं प्रतीतिः प्रत्यक्षा, किन्तु शास्त्रीया । शब्दप्रयोगस्तु गौण्यापि सम्भवति । यथा सिंहो माणवक इति । तथा आधारभूतो भगवानेवेति निराश्रयस्य जगतोऽसम्भवादाधारत्वे सिद्धे तद्द्वारा कर्तृत्वमप्युपचर्यते । वस्तुतस्तु गुणा एककर्त्तारोऽत एव सांख्यादयः प्रकृतेरेव कर्तृत्वं वदन्ति । गुणानामप्ययमाश्रय इति कार्यकारणाधारभूतत्वादभिमानाभावेऽपि लोकदृष्ट्या कर्तृत्वकथनमुपपद्यते ॥ १९ ॥

 एवं जगतोऽमायिकत्वं भगवतोऽकर्तृत्वं कर्तृत्वमुभयं चेति वासुदेवाद्वैलक्षण्येन प्रद्युम्नो निरूपितः । इदमाध्यात्मिकत्वेन उत्पत्तिस्थितिप्रलयात्मकत्वमुक्तम् । आधिदैविकत्वेन अनिरुद्धं तथाभूतमुपपादयति-


 सत्वं त्रिलोकस्थितये स्वमायया
 बिभर्षि शुक्लं खलु वर्णमात्मनः ।।




हेत्वन्तरमुक्तमिति, किञ्चे त्यादिना व्याख्यातम् । अन्यथा त्वविरोधः पूर्वेणोक्त एवेत्यग्रे तच्छङ्कयोपचारोक्तिः शशशृङ्गभिया पलायनमनुहरेत् । वस्तुतस्तु, ननु सांख्यादिषु गुणानामेव कर्तृत्वमुच्यते इत्यत आह ॥ त्वदाश्रयत्वादिति ॥ त्वमेवाश्रयो येषां तादृशत्वाद् गुणानां त्वन्निष्टं कर्तृत्वं तेषूपचर्यत इत्यर्थोऽभिप्रेत इति ज्ञेयम् ॥