पृष्ठम्:श्रीसुबोधिनी.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
जन्मप्रकरणम्अध्यायः


तस्य श्रीः । स तस्यां प्रकृतिमुत्पादितवान । न ततः काचित् पुरुषोत्पत्तिः। प्रकृतौ स्त्र्येव प्रधानभूता । पुरुषस्तु गुणभूतः । तया प्रकत्या सृष्टिस्थितिप्रलया भवन्ति । संकर्षणादुत्पन्नेनैव सूत्रनाम्ना तस्यामुत्पाद्यत इति । जगदुत्पत्तिस्थितिप्रलये परम्परया संनिधिमात्रेण प्रद्युम्नस्योपयोगः । तन्मात्रेणैव लोकः प्रद्युम्नात् सृष्टिमाह । न तु वासुदेववदपि ततः सृष्टिरस्ति । तदत्रानूयते । त्वत्तः प्रद्युम्नरूपाद् भगवतोऽस्य जगतो जन्मस्थितिसंयमान् उत्पत्तिस्थितिप्रलयान् लोका वदन्ति । तथा कथने हेतुः ॥ विभो इति ॥ समर्थत्वाद् वदन्तीत्यर्थः । नन्वस्तु तथैव, को दोष इति चेत्तत्राह ॥ अनीहादगुणादविक्रियादिति ॥ यो हि चेष्टां करोति स एवोत्पादयति । यस्तु महदैश्वर्यादिगुणानवलम्बते स पालयति । पालनं ह्याज्ञयैवाविकृतादपि संभवति । यस्तु क्रोधादिविक्रियां प्राप्नोति स संहारको भवति । अयं च सत्त्वरजस्तमोगुणातीतः । अत एव नास्य कापि विक्रिया'। अतः कूटस्थोऽयं निरीहः । तस्मादघटमानमेवालौकिकसामर्थ्यस्य विद्यमानत्वाल्लोको वदति । यद्ययं कर्तुमिच्छेत्तदा गुणानप्युत्पादयेत् । विकृतश्च भवेदुत्पत्यादिकमपि कुर्यात् । चिन्तामणिरिव वा स्वत एव कुर्यात् । तर्हि विरोधेऽन्यतरपरित्यागस्योचितत्वादन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलीय इति न्यायेनान्तरङ्गा एव स्वरूपधर्मा बलिष्ठाः, न तु लोकप्रतीतिर्बहिरङ्गेति भगवतो जगत्कर्तृत्वाभाव एवाऽस्मिन् पक्षे मुख्यः सिद्धान्त इति युक्तम् । अतो वासुदेवान्न कोऽपि विशेष इतिचेत्तत्राह ।। त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते इति ॥ विरोधे ह्येकतरपरित्याग उचितः । सर्वभवनसमर्थे




 अविरोधे ईश्वरत्वब्रह्मत्वलक्षणं हेतुद्वयमुक्तं तृतीये पादे । चतुर्थेऽपि द्वितीयकोट्युपस्थितिर्न प्रामाणिक्यतोऽपि न विरोध इति