भवत्स्वरूपाद्व्यतिरेकतः । ल्यब्लोपे पश्चमी । तथाच व्यतिरेकं
प्राप्यैव सन् । अन्यथैकरसे ब्रह्मणि विविधरूपत्वभानं न स्यादिति
यो व्यवस्यते सोऽबुधः। धर्मिग्राहकमानेन शुद्धस्यैव ब्रह्मणस्तथैव
सिद्धेः । एतदेवाह ॥ विनेति ।। वस्तुन एव तथात्वादाकारदर्शनानन्तरं
यो भक्तकृतः,कराऽम्बुजं पदाऽम्बुजं नयनाऽम्बुजमित्यादिरूपो वादः
सोऽनुवादः, तं विना तत् कराम्बुजाऽऽदिकं स्वरूपव्यतिरिक्तत्वेन
मनीषितं मनसा सत्त्वेनाकलितं न हि भवति । ननु प्राकृतेष्वपि
भगवत्संबन्धात् सत्त्वोत्पत्त्या तथा प्रतीतौ न दोष इत्यत आह ।।
सम्यगिति ॥ स यथा सैन्धवघनोऽनन्तरोऽवाह्यः कृत्स्नो रसघन
एवं वा अरे अयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनः,
असङ्गो ह्ययं पुरुषः । अथाऽत आदेशो नेति
नेतीत्यादिश्रुतिविचारदशायां त्यक्तं प्राकृतधर्ममुपाददद्भवतीत्यर्थः ।
तैः सह सम्बधे सति हि तेषु सत्त्वोत्पत्तिसंभावना ।
तस्यैवाभावात्तदसंभव इति भावः ।। अथवा,यः
पुमानात्मनो द्रष्टुः स्वस्य दृश्येषु गुणेषु करपादादिषु भगवान्
सन् वर्तमान इति व्यवस्यते सोऽबुधः । तत्र हेतुः ॥
अस्वव्यतिरेकत इति । तेष्वात्मत्वेनाभिमतादभिन्नत्वादित्यर्थः ।
अव्ययाऽन्तप्रयोगेणाविकृतत्वं सूच्यते करादिषु । शेषं पूर्ववत् ।
अतोऽस्मिन्नपि पक्षे कोऽपि त्वयि प्राकृतो धर्मो नास्तीति वासुदेवो
भगवान् ॥ १८ ॥ ॥ प्रद्युम्नरूपं भगवन्तं निरूपयति-
त्वत्तिऽस्य जन्मस्थितिसंयमान् विभो
वदन्त्यनीहादगुणादविक्रियात् ।।
त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते
त्वदाश्रयत्वादुपचयते गुणैः ॥ १९॥
त्वत्तोऽस्येति । स हि जगत्कर्ता निरूपितः । स्मृतिर्हि-