पृष्ठम्:श्रीसुबोधिनी.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
जन्मप्रकरणम्अध्यायः


इति वासुदेवोऽयमन्तरेव बहिर्वा द्रष्टव्यः । उभयथापि न तत्त्वसहितो द्रष्टव्यः, केवलचिदानन्दरूपो द्रष्टव्य इति प्रथममाह ।।य आत्मन आत्मभूतस्य भगवतो दृश्येषु संघातरूपेषु आत्मनैवाऽनुभूयमानेष्वनुभवातिरेकेण तेषां सत्त्वाभावाचतुर्विंशतितत्त्वेष्वऽप्यात्मनो बन्धकेषु गुणेषु यः सन्निति कमपि पदार्थं व्यवस्यति,अस्तिच तत्र सर्वत्रैव तद्रूपेण निविष्टस्य सन्नेव भवति,तत्सत्तयैव च तत्त्वान्यपि सत्त्वेन प्रतीयन्त इति परमार्थः । यदि स्वव्यतिरेकेणात्मव्यतिरेकेणाप्यात्मसंवन्धाभावे आत्मव्यतिरिक्तस्य वा सत्वं यद्यङ्गीक्रियेत तदा अबुधः । न तस्य ज्ञानमस्ति । मायामोहित एव स इत्यर्थः । नन्वात्मसंबन्धात् तस्य सत्त्वमुत्पद्यताम् । अतः सत्प्रतीतौ न दोष इति चेत्तत्राह ॥ विनाऽनुवादं न च तन्मनीषितमिति ।। वैराग्यार्थमिदं मतम्। त्यागार्थमेवास्यानुवादः । सत्त्वसिद्धिव्यतिरेकेण त्यागो नोपपद्यत इतितदर्थमात्मसंबन्धात् सत्त्वमित्यनुवादे नोक्तम् । नन्वात्मना सह संबन्धोऽप्यस्ति प्रतीत्यतिरिक्तस्तदाह ॥ अनुवादं विना तज्जगन्मनीषितं मनसा सत्त्वेनाकलितंनभवति । नन्वेवमप्यबुधत्वं कथम् आरोपार्थमपि तथा ज्ञानं युक्तमेवेतिचेत्तत्राह ॥ सम्यग्यतस्त्यक्तमुपाददत पुमानिति।। संघातेआत्मान्वेषणदशायामात्मव्यतिरिक्तं सर्वमेव त्यक्तम् । तच्चेत् पुनर्गृह्णाति तर्ह्यबुध एव । तदाह ॥ पुमान् स्वयं पुरुषोऽपि भूत्वा सम्यक् त्यक्तमुपाददबुध एवेति । पूर्वेणैव संबन्धः । त्यक्तमपि दूराद् दृश्यते । न तूप समीपे । अन्योपदेशार्थमनुवादेनापि ग्रहणं संभवति । तद्व्यतिरेकार्थमाह ॥ सम्यक् त्यक्तमादददिति ॥ येनैव प्रकारेण सम्यक् त्यक्तं तेनैव तगृह्णातीति ।। अथवा आत्मनो भगवतो दृश्येषु गुणेषु केशलोमनखरूपस्पर्शादिष्वेकोऽपि गुणः स्वस्मात् सचिदानन्दात्मक-