तडागे तदुद्भवैश्छन्ने कचित प्राकट्ये तावन्मात्रत्वं, तदुद्भवानां
वाऽवच्छेदकत्वं न सम्भवति । तथा प्रकृतेऽपि व्यापकस्यैव
तव एकदेशे प्रकटस्य न बाह्यान्तरभेदः सम्भवति । प्रतीतिस्तु
उपपादितैव । परिच्छिन्नत्वमप्यनेनैव परिहृतम् । अस्मिन्नर्थे
शास्त्रीयं हेतुत्रयमाह ॥ सर्वस्य सर्वात्मन आत्मवस्तुन इति ॥
सच्चिदानन्दरूपो भगवान् जगद्रूपो भगवान् सद्रूपः, चिद्रूपा
जीवात्मानः, आनन्दरूपः स्वयं तेषां फलरूपः । अत्र
व्यावकत्वं जगतो जीवानां फलस्य च न सम्भवति । त्रयाणामपि
स्वरूपं भगवानेव, तदाह ॥सर्वस्य सर्वरूपस्य सर्वेषामात्मरूपस्य
सर्वात्मनां च वस्तुरूपस्य फलरूपस्य च आत्मना न परिच्छेदः ।
नाऽप्यात्मनो महतः । अतो भगवदंशानामंशान्तरैर्भगवता
वा परिच्छेदः सम्भवति । न तु भगवतः केनापि प्रकारेण ।
तद्व्यतिरिक्तस्यान्यस्याभावात् । आत्मनैवात्मपरिच्छेदपक्षोऽग्रे
विवेचनीयः ॥ एवं वैदिकप्रकारेण पञ्चात्मको भगवान्
निर्दोषपूर्णगुणविग्रह एवायमिति निरूपितः ॥ १७ ॥
तन्त्रप्रकारेण चतूरूपो निरूप्यते-
य आत्मनो दृश्यगुणेषु सन्निति
व्यवस्यते स्वव्यतिरेकतोऽबुधः।।
विनानुवादं न च तन्मनीषितं
सम्यग यतस्त्यक्तमुपादत् पुमान् १८ ॥
य आत्मन इत्यादिचतुर्भिः ॥ तत्र तन्त्रे प्रथमो वासुदेव-
स्तत्र श्रीर्माया । यत् प्रवदन्ति मायाम् *। इति वाक्यात् मोक्ष-
प्रतिबन्धार्थं तया केवलया जगत् सृज्यते । तत्र चेत् सद्बुद्धि-
स्तदा प्राणी नमुच्यते इति तन्मतं वदन्नेव चतुर्भूर्त्तिर्भगवानवतीर्ण