पृष्ठम्:श्रीसुबोधिनी.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
जन्मप्रकरणम्अध्यायः


क्रियात्वाच्छिदिक्रियावदित्यनुमानेन सामान्यतः करणे सिद्धे नेत्रगोलकान्वयव्यतिरेकानुविधानाच्चक्षुरेव करणमित्यध्यवसीयते । एवं रसोपलब्धिर्गन्धोपलब्धिरित्यादि । अनेन प्रत्यक्षत्व एव प्राकृतत्वमप्रत्यक्षत्वे अप्राकृतत्वमिति निरस्तम् । न हि अप्र-त्यक्षानीन्द्रियाणि अप्राकृतानि भवन्ति । अतो भगवतः प्रत्यक्षत्वेऽपि प्राकृत्वमप्राकृतत्वं वा न सेत्स्यतीति युक्तिरप्रयोजिका ।।

 ननु व्यापकव्यभिचारो न दोषायेतिवद् यत् प्रत्यक्षं तत् प्राकृतमेवेति भगवतः प्रत्यक्षत्वात् प्राकृतत्वमेवेतिचेत् तत्राह ॥ ग्राह्यैर्गुणैरिति ॥ सर्वत्रैव भगवान् वर्त्तते, न सर्वत्रैव प्रत्यक्षः । रूपादिषु विद्यमानस्यैव चक्षुषाऽग्रहणात् । क्वचिदपि प्रत्यक्षत्वमपि बाधकमितिचेत्तत्राह ॥ तद्गुणाग्रह इति ॥ न हि चक्षुषः सामर्थ्येन इदानीमत्रापि भवान् दृश्यते, किन्तु स्वेच्छयैव । अतः स्वेच्छया प्रतीतम् इन्द्रियग्रहणदोषेण न दुष्टं भवति । पराश्चि खानि व्यतृणत् स्वयम्भूस्तस्मात् पराङ् पश्यति नान्तरात्मन्, कश्चिद्धीरः प्रत्यगात्मानमैक्षद् आवृत्तचक्षुरमृतत्वमिच्छन्निति श्रुतेः । परावृत्तचक्षुषो ग्राहकत्वं श्रूयते । स्वभावतश्च निषेधः। न ह्युभयं विरुद्धम् । तथा प्रकृतेऽपीन्द्रियसामर्थ्याददृश्यः, स्वेच्छया तु दृश्य इत्यविरुद्धम् । तस्माद् दृश्यत्वेनाब्रह्मत्वशङ्का परिहृता । भिन्नत्वेन बाह्यत्वेन प्रतीतो समाधानमाह ॥ अनादृतत्वाद् बहिरन्तरं न ते इति । बाह्याभ्यन्तरव्यवस्था आकाशकृतेति पूर्वमेऽवोचाम। तदपि भूतादीनामेव । भगवतो व्यवधायकं न किञ्चित् । न हि गृहमध्यस्थितैर्गृहमन्यस्माद्व्यवहितं भवति । न वा स्वस्य स्वयं व्यवधायकम् । व्यापको भगवानिति । ततः स्थूलकार्यस्याऽभावाद् भगवतोऽनावृतत्वमेतदग्रे स्पष्टीभविष्यत्युलूखलबन्धने। अनादृतत्वादेव तव बाह्याभ्यन्तरव्यवहारो नास्ति । संपूर्णे