पृष्ठम्:श्रीसुबोधिनी.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


कारणानां विलक्षणत्वात् । साक्षात् प्रवेशस्तु प्रतीत्यैव बोधितः। यथाधिदैविकानि कारणरूपाण्येवं दन्तादीन्यप्याधिदैविकानीति पूर्ववत्तेषामप्यत्र प्रतीतौ न कोऽपि विरोधः ॥ १६॥

 एवं दृष्टान्तद्वयमुपपाद्य तेषामाधिदैविकानां भगवतो भेदो भविष्यतीति तन्निराकरणार्थं दार्ष्टान्तिकेऽतिर्दिशति--


 एवं भवान् बुद्ध्यनुमेयलक्षणे-
 र्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ॥
 अनावृतत्वाद् बहिरन्तरं न ते
 सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७॥


 एवं भवानिति ॥ एवंरूपो भवानेवेत्यर्थः । अन्यथा मूलस्यातादृशत्वे कार्यं तादृशं न कदापि भवेदिति पुनर्दषणान्तरमाशङ्क्या परिहरति । बुद्ध्यनुमेयेति ॥ ननु भगवान् दृश्यः कथमन्यथा सर्वमुक्तिश्च स्यात् । बाह्यत्वेन भिन्नत्वेन च कथं प्रतीयते । न हि भगवान् बाह्य एव भिन्न एव । तस्माद्भिन्नत्वेन बाह्यत्वेन च दृश्यत्वेन च प्रतीयमानत्वाद्दोषत्रयसद्भावान्नानन्दमयो भगवानितिचेत्तत्राह । बुद्ध्या अनुमेयं लक्षणं येषां तादृशैरिन्द्रियैर्ग्राह्यर्र्गुणैरूपादिभिः सह तत्र विद्यमानो भवान् गृह्यमाणोऽपीन्द्रियसंबन्धयुक्तोऽपि सन्नपि तद्गुणेन्द्रियसामर्थ्यैर्न ग्रहो यस्य । यद्यपि भगवानिन्द्रियेषु विषयेष्वपि वर्त्तते, तथापि तेषामिन्द्रियाणां न भगवद्ग्राहणसामर्थ्यं, न वा आधिदैविकानामन्याऽर्थनिविष्टानां ग्राह्यस्वरूपत्वाच्च न ग्राहकम् । न वा विषयाणां स्वाधिदैविकैः सह ग्राहकसंबन्धः । अतः सर्वत्र विद्यमानोऽपि रूपभूतोऽपि रूपे गृह्यमाणे न गृह्यसे । इन्द्रियाणां प्रत्यक्षता तु नास्ति । आत्माग्राहकत्वात् । अतो रूपोपलब्धिः करणसाध्या