यथेमे विकृता भावास्तथा तैर्विकृतैः सह ॥
नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥१५॥
यथेमे विकृता भावा इति ॥ नन्वस्मिन् रूपे प्राकृतष्विव
पृथिव्यादीनि भूतानि प्रतीयन्ते । ततः कथमानन्दमय इतिचेत्
तत्राह ॥ यथा इमे अस्मिन् रूपे विद्यमाना अविकृता भावा
आधिदैविकानि चतुर्विंशतितत्त्वानि, चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रं
मनसो मन इत्यादिश्रुतिप्रतिपादितानि तत्तत्कार्यार्थं तत्र तत्र
स्थितानि, विकृतैस्तथैव चतुर्विंशतितत्वैःप्राकृतैः सह नानावीर्या
रूपरसादिज्ञापनादिसमर्थाः । अन्योऽन्यममिलिता भिन्नान्येव
कार्याणि कर्तुम् एकस्मिन्नेव कार्ये सर्वे संहत्य विराजं
ब्रह्माण्डविग्रहं स्वराड्र्देहं जनयन्ति । युक्तश्चायमर्थः ।
आधिदैविकव्यतिरेकेण आधिभौतिकात् केवलात् कार्यं
न सम्भवतीति । तथा प्रकृतेऽपि सर्वांशो भगवानिति
तान्याधिदैविकानीह प्रतीयन्त इति न कोऽपि दोषः ॥१५॥
ननु त्वचर्मादयोऽपि प्रतीयन्ते लोमदन्तनखानि च । ततः कथमानन्दमय इतिचेत्तत्राह-
संनिपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव ॥
प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १६ ॥
संनिपत्येति ॥ संनिपत्य मिलित्वा सम्यगुत्पाद्येति ।
पूर्वानुवादः, कार्येऽपि कारणेष्विवाधिदैविकं रूपं वर्त्तत इति
ज्ञापनार्थः । अनुगता इव दृश्यन्ते पुनः कार्ये त्वक्चर्मादिरूपेण
पृथवीसमष्टौ तत्तद्रूपा वा सर्वत्र रुधिरादिरूपं जलम् ।
एवमन्यदपि । तर्हि दर्शनप्रामाण्यादनुगता इव भवन्त्वितिचेत्तत्राह
प्रागेव कारणत्वेन इह विद्यमानत्वात् पुनस्तेषामिहोत्पत्तिर्न संभवति ।