श्रुतेः । दितेर्जठरे च मरुतां छेदनार्थमिन्द्रः प्रविष्टस्तथा भगवान्
अत्र न प्रविष्ट इति वक्तुमप्रविष्ट इत्युक्तम् । प्रवेशधर्मो भगवति
वर्त्तत इति तज्ज्ञापनार्थं प्रविष्ट इवेति विभाव्यते। तर्हि कः प्रकार:
प्रवेश ? इत्याकाङ्क्षायामाह । यः पूर्वं सच्चिदानन्दरूप उक्तः
स एवाग्रे पूर्वमेव स्वप्रकृत्याधिदैविकस्वभावेनेदं भगवदर्थमेव
जगत् त्रिगुणात्मकं सृष्ट्वा । अन्यार्थं जगत्सृष्टौ प्रवेशोऽपेक्ष्यते, न
स्वार्थसृष्टाविति । अप्रविष्ट एव भोगार्थं कारणत्वेनैवाविर्भूतः
सृष्टयन्तरन्यायेन प्रविष्ट इव विभाव्यसे । अयमत्र प्रवेशदर्शने
प्रकार उक्तः । भगवान् स्वार्थं सृष्टानस्मानुपभोक्तुमस्मासु
स्थित एवाविर्भूत इत्यप्रविष्ट एव प्रविष्टो विभाव्यस इत्यर्थः ।
यथा सृष्टयन्तरन्यायेन प्रवेशभावना तथा स्नेहद्वेषसाधारणभावानामपि
प्रभुविषयकाणां लीलास्थजनेषु दर्शनात सृष्ट्यन्तरन्यायेन तेषामेवात्र
सत्त्वादिरूपत्वमित्याशयेन त्रिगुणात्मकत्वोक्तिर्ज्ञेया ।
अत्रिगुणात्मकमिति वा । यद्वा अग्ने पूर्वं त्रिगुणात्मकं जगत्सृष्ट्वा
तदनु तदनन्तरमुक्तरूपया स्वप्रकृत्येदं लीलात्मकं जगत्सृष्ट्वेत्यग्रे
पूर्ववत् । अन्यथा क्त्वा-प्रत्ययेनैव पूर्वभावत्वप्राप्त्यार्थादेवाप्रवेशस्यानन्तर्यमपि
लभ्यते एवेति, तदऽन्वितिपदं व्यर्थं स्यात् । यद्वा,सृष्टयनन्तरं
यस्तत्र प्रवेशस्तस्याऽनुप्रवेश इति रूढं नामेति ज्ञेयम् । तथा सति
नोक्तदोषः । अत एव श्रुतिरपि, तत् सृष्ट्वा तदेवानुप्राविशदित्युक्तवती ।
अन्यथाऽन्वित्युपसर्गवैयर्थ्यं
स्यात् ।। १४ ॥
उक्तरीत्या दृषणान्तरमप्याशङ्क्या पुनः परिहरति द्वाभ्याम्
अधिदैविकस्वभावेनेत्यादि ॥ लीलोपयिकपदार्थानामलौकिकस्वेन लौकिक्या प्रकृत्या न तत्सृष्टिः सम्भवतीति तथोक्तम् । अन्यथा स्वपदानर्थक्यमिति भावः ।।