भविष्यतीत्याह ॥ स्वरूप इति ॥ यत् स्वरूपं दृश्यते तदेव
चिदानन्दरूपं, नतु चिदानन्दौ स्वरूपे यस्मिन् ।
अतश्चिदानन्दस्वरूपः । सच्चिदानन्दविग्रह इत्यर्थः । एवं
परोक्षापरोक्षाऽन्तर्यामिरूपः परिदृश्यमानो भवानित्युक्तम् ।
आत्मा नोक्त इत्याऽऽत्मत्वेनापि भगवन्तं निरूपयति ॥
सर्वबुद्धिदृगिति ॥ सर्वेषां बुद्धीः पश्यतीति सर्वेषां बुद्धिषु
दृग् ज्ञानं यस्येति वा । एवं षविधोऽपि भगवानयमेवेत्युक्तम् ।
प्रत्यक्षव्यवहारादयश्च धर्मा अंशेन समर्थिताः ॥ १३ ॥
दूषणान्तरमाशय परिहरति-
स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् ।।
तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥१४॥
स एवेति ॥ यद्यहं सर्वरूपो भगवानेव, कथं देवक्या
उदरे प्रविष्ट इतिचेत्तत्राह ॥ अप्रविष्ट एव तत्र विद्यमान एव
प्रविष्ट इव भाव्यसे । न हि दर्शनमात्रेण प्रविष्टत्वनिर्धारः कर्तुं
शक्यो यावच्छास्त्रेण दर्शनं संवादि न भवति । स एष इह
प्रविष्ट आनखाग्रेभ्यो यथा क्षुरः क्षुरधाने विश्वम्भरो वा
विश्वम्भरकुलाये, तत्सृष्ट्वा तदेवानुप्राविशत् , गुहां प्रविष्टौ परमे
पराद्धे । एवं वेदे स्थित्यर्थं कार्यार्थमनेकरूपभवनार्थमन्यप्रनेशनाऽर्थं
च प्रवेशः श्रूयते । तथा देवक्यामपि कश्चन प्रवेशनप्रकारो
भविष्यति । ननु तथापि सोपाधिक एव कार्याभिनिविष्ट एव
प्रविशतीति मुख्यः कृष्णः कथं स्यात्तत्राह ॥ अप्रविष्ट एव
प्रविष्ट इवेति ॥ योगवलादपि इन्द्र इव प्रवेशः सम्भवति ।
दक्षिणायां वा जननार्थं प्रवेशः सम्भवति। यो वा इतो जनिष्यते.
इदं भविष्यतीति तां प्राविशत् तस्या इन्द्र एवाजायतेति