पृष्ठम्:श्रीसुबोधिनी.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


रपि पुरुषविधत्वात् पुरुषो भवतीति तद्व्युदासार्थ साक्षादित्युक्तम् । पुरुषप्रवेशात् परम्परया ते पुरुषाः। नन्वात्मस्फूर्त्तौ ब्रह्मविदामपि साक्षात्पुरुषत्वं भवतीतिततोऽप्याधिक्यमाह ॥ प्रकृतेःपरइति॥ न हि ते जीवाः प्रकृतिनियन्तारः । प्रकृतिनियमनं च गुप्तानामर्थानां मायाजीवादीनां प्राकट्यकरणात् । प्रत्यक्षदोषस्तु असि भवानिति पदाभ्यां परिहृतः । ज्ञातत्वदोषश्च सर्वभावेन प्राकट्यात् । विरुद्धा धर्मा एकैकांशेन चरितार्था भवन्ति । तर्ह्यहमात्मा चतुर्भुजदेहे विद्यमानस्तथा भविष्यामीतिचेत् तत्राह ॥ केवलानुभवानन्दस्वरूप इति । केवलो देहेन्द्रियमाणान्तःकरणरहितः। नाऽपि जीववत् केवलं चिद्रूपः, किन्तु अनुभवानन्दः। अयोगोलके वह्निरिव भगवानस्मिन् देहे चिदानन्दः संक्रान्तो




आग्रमेण परमात्मत्वेन प्रतीतिविषय उक्तः। तेन श्रुत्युक्तसैन्धवघनदृष्टान्तन्यायोऽत्राभिप्रेत इति ज्ञायते ॥

 प्रत्यक्षदोषस्त्वित्यादि ॥ शुद्धब्रह्मत्वेन पुरुषोत्तमत्वेन च वेदनं हि विदितोऽसीत्यनेन प्रतिज्ञातम् । आसि भवानितिव्यवहारश्च प्रत्यक्षविषय एव भवति । एवं सत्युक्तव्यवहारविषयस्यैव प्रभोरुक्तरूपत्वं सिद्ध्यतीतितत्परिहार इत्यर्थः ।।

 ननु ज्ञातत्वे प्रामाणिके सत्युक्तदोषपरिहारः। तच न वक्तुं शक्यम् । दोषत्वादित्यत आहुः ॥ ज्ञातत्वेति ॥ भगवत्पुरुषपदाभ्यां पूर्व तथोक्तत्वादलौकिकचक्षुस्तत्सामर्थ्यरूपेणापि स्वयमेव हरिः प्रकटो जात इति स्वस्य स्वज्ञानं यथा न विरोधि तथा वसुदेवशानमपीत्यर्थः । अन्यदेव तद्विदितादथोअविदितादित्यादिश्रुतिरपि लौकिकयोस्तयोः सकाशादेव भेदमाह । अन्यथा वद्व्याघात इति भावः। नन्वदृश्यत्वादिप्रतिपादकवेदाऽप्रतिपाद्यत्वाद् ब्रह्मत्वमपि न वक्तुं शक्यमित्यत आहुः ॥ विरुद्धा इति ॥ यद्रूपं यदा दृश्यं तदेव तदैवादृश्यमपीतीन्द्रियसामर्थ्यलक्षणेनांशेन प्रभिवच्छालक्षणेन तेन चोभयधर्मसिद्ध्या ब्रह्मत्वं न क्षतं भवतीत्यर्थः॥