पृष्ठम्:श्रीसुबोधिनी.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
जन्मप्रकरणम् । अध्यायः ।


श्रीवसुदेव उवाच ॥



 विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः॥
 केवलानुभवाऽऽनन्दस्वरूपः सर्वबुद्धिदृक् ॥ १३ ॥


 विदितोऽसीति । ज्ञातस्वरूपस्तोत्रे एते । भवान् विदितः । मया सम्यग् ज्ञातः । आर्षेण ज्ञानेन, तत्त्वमस्यादिवाक्योत्थेन बहव एव जीवमपि भगवत्वेन जानन्तीतिचेत् तत्राह ।।असीति ॥ यस्तु युष्मच्छब्देनापि व्यवाह्वियते चतुर्भुजः सोऽपि त्वं विदितोऽसीत्यर्थः । अप्रयुज्यमानेऽपि युष्मच्छब्दे मध्यमपुरुषप्रयोगः । अतः शास्त्रतो लोकतश्च यः प्रतीयसे स मया विदित इत्यर्थः । अनेन परम्परया यः प्रतीयते । अचेतनश्च, यो वा साक्षात् प्रतीयते तदुभयरूपो भवानित्युक्तम् ॥

अथवा, विदितोऽसीति प्रतिज्ञाय भगवतो ब्रह्मत्वमुपसंहरिष्यन् सर्वत्वं प्राप्तस्य ब्रह्मत्वं भवतीति, भवान् पुरुष इति पदद्वयेन बाह्याभ्यन्तररूपस्त्वमेवेत्याह । प्रत्यक्षोऽप्यप्रत्यक्ष इति ज्ञापयितुं वा सम्मुखोऽप्यसम्मुख इति वा पुरुषत्रयरूपो भगवानिति वा वक्तुम् , असि भवान् साक्षात्पुरुष इति पदत्रयम् । अन्नमयादे-




 यस्त्वित्यारभ्य प्रयोगान्तम् ।। अत्रैवं ज्ञेयम् । असीति व्यवहारो युमच्छब्देनोपस्थित एव भवतीति स्थितावपि व्यवहारमात्रोक्तिर्या सा, स तेन विनानुपपन्नस्तमाक्षिपतीत्यन्यलभ्यत्वाभिप्रायेणेति । अत एव, पिधेहीत्यादौ द्वारादिपदार्थस्यैवाध्याहारो, न तु पदस्यापि लाघवादिति भाट्टा मन्यन्ते । प्रकृते त्वर्थस्य पुरःस्थत्वेन नाध्याहाराऽपेक्षापि । वस्तुतस्त्वसि-भवानिति समस्तं पदम्। तथाचासिशब्दयुक्तो भवानित्यर्थः। तद्युक्तत्वं तेन व्यवहार्यमाणत्वम् । पूर्वोक्तपक्षे भवच्छब्दसंगत्यभावारुच्या पक्षान्तरमाहुः||अथवेत्यादि ॥ क्षराक्षरपुरुषोत्तमाः, आधिभौतिकादयो वा त्रयः पुरुषाः ॥ असीति देहरूपेण सत्त्वेन प्रतीयमान उक्तः ॥ भवानिति तदभिमानित्वेन ॥