पृष्ठम्:श्रीसुबोधिनी.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


तदा अयुक्तमिति । तद्व्युदासार्थमाह ॥ कृतधीरिति ।। यद्यपि पूर्व पुरुषोत्तम आविर्भविष्यतीति ज्ञानं न स्थितं, तथापि प्रदर्शितैभगवताऽवयवादिभिः कृता धीर्यस्य । समानयोरपि तथात्वं सम्भवतीति तद्व्युदासार्थं कृताञ्जलिरिति । अञ्जलिर्महत एव क्रियते । स्तोत्रं कायवाङ्मनोभिः कर्त्तव्यम् । तत्र, कृताञ्जालरिति स्तोत्रे कायस्थितिः । कृतधीरिति मनसः । स्तोत्रं वाचनिकम् । ननु स्तोत्रमुच्चैः कर्त्तव्यं, तथापि सति प्राहरिकाणां जागरणं भवेदित्याशङ्क्या य कंसभयं तस्य नास्तीत्याह । गतभीरिति ॥ तत्र हेतुः ॥ प्रभावविदिति ॥ भगवतः कालादिनियमनं जानातीति प्रभाववित् । ननु विद्यमानमपि सामर्थ्यं न प्रकटयेञ्चेत प्रमाणसिद्धं वा शालग्रामादिवत सामर्थ्यं स्यात् । तदा विपरीतं भवेदित्याशङ्क्य प्रकटतेजःपुञ्जेन प्रकटमेव सामर्थ्यं तस्येत्याह ॥ स्वरोचिषा स्वरूपकान्त्या सूतिकागृहं विरोचयन्तम् । कोटिमणितेजसा यथा गृहं प्रकाशितं भवति तथा प्रकाशयन्तम् । भारतति सम्बोधनं विश्वासार्थम् ॥ १२ ॥

 द्वादशात्मा हरिर्ज्ञेयस्त्रिधा च नवधा तथा *। नवधा वैदिकः प्रोक्तस्त्रिधा लौकिक उच्यते ॥ यज्ञस्तु पञ्चधा प्रोक्तश्चतुर्दा भगवानिति *। पञ्चात्मकश्चतुर्मूर्तिस्तन्त्रं वेदेन संमितम् ॥ लौकिकस्त्रिगुणः प्रोक्तः स्मृतिश्चैव हि लौकिकी *। नवधा वसुदेवोऽस्तौत् त्रिधा चैव हि देवकी । एकेन प्रार्थनं पूर्व द्वाभ्यां चैव तथा परम् *। दशभिः पञ्चभिश्चैव निरूप्येते स्तुती उभे ॥ शास्त्रतो भगवानेव प्रतीत्यापि दृढीकृतः * बाधकं त्वन्यथा ज्ञानमज्ञानं चाऽपि हेतुतः। तत्र प्रथमं बाधकधर्मंश्चाक्षुषत्वादिभिब्रह्मत्वं नोपपद्यत इति चाक्षुषत्वनिमित्ताज्ञानाद् भगवद्विपयकमज्ञानं सम्भवति । तदादौ निराकरोति---