स्तस्मिञ्जाते सम्यग्भ्रमो यस्य । तादृशश्च भगवच्छास्त्रे स्मृतिशास्त्रे
चोत्सवाविष्टः । तादृशे कर्मणि शास्त्रेणापर्युदस्तः । पुत्रस्य
सर्वलक्षणसंपत्तावेव तथाऽधिकार इति कृष्णपदम् ॥ मुदेति
हर्षस्नेहात्मक इति भक्तिसूचकः । गवाम् अयुतं द्विजेभ्य आस्पृशत् ।
ब्राह्मणानुद्दिश्य दशसहस्रं गावो दत्ताः । ननु स्नात्वा गावोदेयाः ।
कथमेवमेव संकल्पं कृतवानित्याशङ्क्याह । मुदाप्लुत
इति ।। हर्षजलेनैव स्नातवानित्यर्थः ॥११॥
ननु पुत्रः संस्कर्तव्यो जातकाख्येन कर्मणा । तत् कथं नकृतवानित्याशङ्क्य प्राकृत एव तस्य संस्कार इति, नास्मिंस्तदपेक्षेति तज्ज्ञानं स्वस्य वर्तत इति ज्ञापयन् भगवन्तं स्तौतीत्याह--
अथैनमस्तौदवधार्य पूरुषं
परं नताङ्गः कृतधीः कृताञ्जलिः॥
स्वरोचिषा भारत सूतिकागृहं
विरोचयन्तं गतभीः प्रभाववित् ॥१२॥
अथैनमिति ॥ अथ कर्मसमाप्तिं विधाय तदनन्तरमेनं
पुत्रत्वेनाविर्भूतं भगवन्तमस्तौत् । स्तोत्रमुत्कृष्टे कर्त्तव्यमिति कथं
पुत्र स्तोत्रमित्याशङ्क्याह ।। अवधार्य पूरुषमिति ॥
पूर्वोक्तवर्णनप्रकारेण परः पुरुषः पुरुषोत्तम एवायमित्यवधार्य,
अभिनन्दनाऽऽत्मकमपि स्तोत्रं भवतीति तद्व्युदासार्थं नताङ्गः ।
नतमङ्गंयस्य । नमस्कारं कृत्वेत्यर्थः । यो भगवाञ्जातो यादृशस्तं तथैव
ज्ञात्वा स्तोत्रमुचितम् । अन्यथा सन्तमन्यथा चेत् प्रतिपद्यते
सम्यग्भ्रमो यस्येति॥ विविधपदार्थैर्महानुत्सवः कार्य इति बुद्ध्या तत्र तत्र मनोधावनं भ्रमः । पुरःप्रकटे भगवत्यत्रापि मनोधावनस्यानुचितत्वात् । परं तूत्सवरसस्तादृश एवेति भक्तिमार्गे स गुण एवेति भगवच्छास्त्रेणापर्युदस्तः ॥