पृष्ठम्:श्रीसुबोधिनी.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


भगवान् भवति ॥ वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते तथा मध्ये हरिः सर्वत्र गीयत, इति ॥ नन्वेतादृशो भगवानिति किमर्थमुच्यते, तत्राह ॥ वसुदेव ऐक्षतेति ॥ तत्पूर्वोक्तानां धर्माणां लौकिकत्वमलौकिकत्वं च सम्भवति । यदि वसुदेवो न ज्ञास्यति तदा लौकिकान्येवैतानीति मंस्यते । अथ ज्ञास्यति, तदोक्तं व्याख्यानमुभयार्थं तादृशधर्मयुक्तं दृष्टवानिति शुक आह । एतज्ज्ञानं स्तोत्रे स्पष्टं भविष्यति ॥१०॥

 एवं भगवन्तं दृष्ट्वा शुद्धसत्त्वात्मको वसुदेवः क्रियां ज्ञानं च प्रकटीकृतवानित्याह द्वाभ्याम् । दानं क्रिया । स्वरूपज्ञानबोधकं स्तोत्रम् । कर्मण्यधिकारचतुष्टयं श्रद्धा चाङ्गम् । अर्थी विद्वान् समर्थः शास्त्रेणाऽपयुदस्तश्च । इदं च कर्म नैमित्तिकम् । तस्याऽपेक्षाज्ञापको हर्षः । स चासाधारण एव भगवनिष्ठो भवति । तदाह-


 स विस्मयोत्फुल्लविलोचनो हरिं
 सुतं विलोक्यानकदुन्दुभिस्तदा ॥
 कृष्णावतारोत्सवसम्भ्रमोऽस्पृश-
 न्मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ ११ ॥


 स विस्मयोत्फुल्लविलोचन इति ॥ एतत्सर्वपरिज्ञाने स इति पूर्वोक्तो वसुदेवो हेतुः । अलभ्यलाभाद्विस्मयः। स विस्मयोऽन्तःप्रविष्ट उत्फुल्ले विलोचने करोति । पूर्वं हरिः सुतो भविष्यतीति श्रुतम् , इदानीं हरिं सुतं विलोक्य । अनेन विद्वत्ता उक्ता । निमित्तज्ञानेनैव नैमित्तिकमपि ज्ञातम् । करणात् स्पष्टं भविष्यति॥आनकदुन्दुभिरिति सामर्थ्यम् । असामर्थ्ये आनका दुन्दुभयश्च कथं नेदुः। कृष्णस्यावतारे यउत्सवो मनसो विलास-