भवन्ति । तान्येव पदानि त्रयाणामपि भेदाः सहस्रं सन्तीति
ज्ञापयितुं कुन्तलानां संख्या निरूपिता॥ लौकिकज्ञानविस्मरणाऽर्थं
परिष्वङ्गो निरूपितः । एवं लोके ज्ञानं निरूप्य क्रियां निरूपयति ।।
उद्दामेति ॥ कर्माण्यनन्तान्येव तथापि त्रिविधानि निरूप्यन्ते ।
काञ्च्यङ्गदकङ्कणरूपाणि तमःसत्त्वरजोरूपाणि । एतानि त्रीणि
वेदादिभूतानि स्वसजातीयानि बहून्येव जनयिष्यन्ति । लोके काञ्ची
सदामा भवति । इयं तद्दामा दामरहिता
हिंसाप्रचुरापि वैदिकी कृतिर्न लोकानुसारिणी भूमौ मायाव्याप्तानामेव
तत्राधिकार इति पीताम्बरोपरि काञ्ची तिष्ठति ।
लौकिकानि तानि व्यावर्तयितुं लौकिकसूत्राभाव उक्तः ।
उत्कृटानि वा लौकिकानि तत्र साधनानि निरूपितानि । अङ्गदानि
बाहुमध्ये तिष्ठन्ति । अङ्गं द्यति खण्डयतीति राजसं तद् भवति।
साविकराजसयोर्विभागहेतुत्वात्। आदिशब्देन मुद्रिकाः,
अङ्गदस्थानीयान्यन्याभरणानि क्षुद्रघण्टिकानूपुरादीनि च निरूप्यन्ते ।
तैः सर्वैरेव धर्ममार्गवर्तिभिर्भगवत्सम्बन्धिभिर्विरोचमानो
एव, वेदवादरताः पार्थेत्यादिनोक्तशीलानां न भक्तिलाभः ।
एतदेवाभिसंधाय सर्वलोकप्रसिद्धादिति विशेषणं दत्तम् । अर्हस्य
लोकसिद्धत्वेनापि तथा विशेषणमितिज्ञेयम् । कुन्तलानां रसोहीपकत्वेन
तेषु भक्तिप्रवर्तकत्वमपि सूच्यते ॥ तान्येव पदानीति ॥ कुन्तलानां
भ्रमरतुल्यत्वेन तेषां षट्पदत्वेनैतेष्वेतान्येव तानीत्यर्थः॥ त्रयाणामपति ॥
वेदसांख्ययोगानामित्यर्थः । कुन्तलानां शास्त्राभिज्ञजीवत्वेन
पूर्वमुक्तत्वात्तेषामनेकविधत्वे तज्ज्ञानप्रकारानेकविधत्वमेव प्रयोजकमिति
कुन्तलानेकत्वोक्त्या तत्प्रयोजकमप्याक्षिप्तं भवतीत्यर्थः॥
उद्दामेत्यत्र--त्रयाणां कर्मत्वोक्तरयं भावः । भूमावेव कर्ममार्ग इति तद्रूपकट्यां भूषणत्वेन स्थितस्य कर्मत्वं युक्तम् । इतरयोः क्रियाशक्तिप्रतिष्ठितत्वेनति ॥