विधाय तेभ्यश्चतुर्विधपुरुषार्थान् प्रयच्छतीत्युक्तम् । तत्र
ज्ञानक्रिययोः प्रकारभेदाः सन्तीति ज्ञापयितुं सर्वशास्त्ररूपाणि
भगवदाभरणान्यनुवर्ण्यन्ते ज्ञानवैराग्यरूपेण-
महार्ह वैदूर्यकिरीटकुण्डल-
त्विषा परिष्वक्तसहस्रकुन्तलम् ॥
उद्दामकाञ्च्यङ्गदकङ्कणादिभि-
विरोचमानं वसुदेव ऐक्षत ॥१०॥
महाहेति ॥ महान् अर्हो मूल्यं यस्य तादृशवैदूर्ययुक्तं
किरीटं कुण्डले च,तेषां त्विषा कान्त्या परिष्वक्तान्यालिङ्गितानि
सहस्रं कुन्तलानि यस्य । भगवन्मुखनिरीक्षकाः शास्त्राभिज्ञा जीवा
भगवन्मुखामोदपानरताः षट्पदा इव भक्तौ परितश्चकासते । तेषां
वेदः सांख्ययोगौ च शोभाजनका भवन्ति । वेदसांख्ययोगानां प्राप्तिश्च
सर्वलोकप्रसिद्धाद् गुरोरेव भवतीति वैदूर्यरूपेण निरूपितः ।
वेदे काण्डद्वितयम् । योगोऽपि साधनफलरूपो द्विविधः ।
सांख्यमपि न्यासज्ञानभेदेन द्विविधम् । एवं षट्शास्त्राणि निरूपितानि
दानम् ॥ भगवन्मुखनिरीक्षका इत्यादि। अत्राय भावः। विभर्ति
सांख्यं योगं च देवो मकरकुण्डले इति वाक्यात्तद्रूपयोस्तयोः
सहभावेन किरीटस्योक्तेमौलिपदं पारमेष्ट्यमित्यत्रापि तद्रूपो
वेद एवोच्यत इत्यवगम्यते । सर्वप्रमाणानामुपरिस्थितिस्तस्यैवोचिता
यतः। एवं सति तज्जनितज्ञानमेव तडिद्रूपमिति तत्परिष्वङ्गोक्त्या
तेषां तथात्वमेव संपद्यतइति जीवानां तत्र स्थितिरयुक्तेतिशङ्कानिवारणाय
भगवन्मुखेत्याद्युक्तम् । अपरं च तेषां बहुत्वेऽपि तडित्येकत्वोक्त्या
तज्जनितस्य भक्तिभावस्यैकरूपत्वं मूले ज्ञाप्यते । तेन वेदादीनां
भक्तिरेव फलमिति शापितं भवति । अर्हस्य प्रापकद्रव्यरूपत्वेन तादृशोऽत्र
गुरुरेवेति तथोक्तम् । अन्यथा त्वमूल्यपदमेव वदेदिति भावः । इदं
च भक्तिमन्महापुरुषानुग्रहादेवेति ज्ञापनायार्हे महत्त्वमुक्तम् । अत