पृष्ठम्:श्रीसुबोधिनी.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
जन्मप्रकरणम्अध्यायः


यस्तु स्वकाले सर्वानन्ददायीअन्नोत्पादकस्तापनाशकश्च स सान्द्रः पयोदः । एवमेव भगवानपि पृथिव्याः स्वर्गस्य धर्मस्य भक्तानां च सोनिष्टनिवृत्तिपूर्वकसर्वेष्टकर्त्ता। सर्वत्र पूर्णगुणकोऽपि बहूपमो- ऽभूदिति प्राकृतोपमा न दोषः । अन्यथा बोधनं न सङ्गच्छेत । स्निग्धप्रावृडघनश्याम इत्यर्थः । अनेन कान्तिलक्षणा श्रीनिरूपिता ।। ९॥

 एवं मूलभूते ब्रह्मणि स्वयं स्थित्वा स्वांशाञ्जीवान् कृताऽर्थान् कृत्वा भूमिष्ठाञ्जीवान् व्यामोहेन स्वरूपज्ञानरहितान्




गतं सन्नीलमिव पश्यति । तथा ब्रह्माप्यतिगाढं गम्भीरतया नीलमिव पश्यतीत्येकः प्रकारः। तत्तद्युगाधिष्ठातृदेवतानां तादृक्तादृग्रूपत्वात् तत्प्रतिबिम्बन नियतानेकरूपत्वमिति द्वितीयः । भूमेर्नीलरूपत्वेन तत्राविर्भावे तत्प्रतिफलनेन तथा भातीति तृतीयः । शुद्धस्य सत्त्वस्य नीलरूपत्वेन तत्प्रतिफलने वैकुण्ठाविर्भूतं ब्रह्म तथा भातीति तुरीयः। अथवा भूमिवैकुण्ठं श्वेतद्वीपम् । हन्तेदं ब्रह्मणो नीरूपत्वपर्यवसायित्वेन न विद्वज्जनमनोरमं भवतीतिचेन्मैवम् । अंशावतारविभूतिरूपावतारविषयत्वादस्य । श्रीपुरुषोत्तमाख्यं तु वस्त्वेव तादृशं न त्वौपाधिकं तत्राण्वप्यस्ति शुद्धब्रह्मरूपत्वादित्यनुपदमेव प्रमाणप्रकरणे निरूपयिष्यत इति विद्वद्भक्तमनोरममेतदिति जानीहि ॥ यस्तु स्वकाल इत्यादि तु परोक्षवादत्वेनापि ज्ञेयम् ॥ स्वकाले लीलाकाले ॥ अत एव स्वपदम् । नूतनरसोत्पादको दिनान्तादिष्वनिमश्च । एवमित्यादिना श्रीवत्सेत्यादिविशषणोक्तितात्पर्यमुक्तक्रमेण पुरुषोत्तमाऽसाधारणचिह्नत्वात् तत्त्वेन ज्ञाने मूलकारणभूतः श्रीवत्सः । तस्य ब्रह्मत्वं निरूपितम् । वस्तुतस्तु श्रीरूप एव सः । ब्रह्मानन्दरूपत्वात्तस्यास्तत्र स्थितो लीलां करोतीति लीलामूलभूतमपि तद्रूपं ब्रह्मा । कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यंज इति वाक्यात् । स्वीयत्वेनाऽङ्गीकृतानामात्मनामाधिदैविक रूपं स्वकण्ठे स्थापयन्न जातु त्यजति। स्वरूपानन्दं च ताननुभावयतीति । तथा भूरूपकट्या आवरणोक्त्या तथात्वम् । प्रावृड्घनश्यामत्वोक्त्या सर्वानिष्टनिवृत्तिपूर्वकं सर्वार्थ-