पृष्ठम्:श्रीसुबोधिनी.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


यस्य । स हि सर्वजीवानां स्वरूपभूतः । चैत्यस्य तत्त्वमिति वाक्यात् । क्रियाशक्तेर्ज्ञानशक्तिरुत्तमेति । मुक्तजीवानां सरस्वतीस्थानप्रापणार्थं कण्ठे कौस्तुभस्थापनम् । जीवानामुभयविधत्वज्ञापनाय मध्ये स्थापनम् । केचन क्रियानिष्ठाः केचन ज्ञाननिष्ठा इति । अत एव सर्वाङ्गवर्णनायां कौस्तुभो मणिरुभयत्र निरूपितः। कण्ठं च कौस्तुभमणेरधिभूषणार्थं चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ।* इति च । अत एव शोभा द्विविधा, क्रियाकृता ज्ञानकृता च । जीवस्तूभयधर्मयुत ति शोभायुक्त उक्तः । एवं ब्रह्मद्रयसम्बन्धं भगवति निरूप्य जीवानां तथा हेतुभूतां मायां भगवतः प्रदेशविशेषाऽऽवरिकां पीताम्बरं निरूपयति । पीतमम्बरं यस्येति। आकाशतनोरविकारसम्बन्ध एव शोभाहेतुभवति । पीतत्वं तामसराजससम्बन्धात् । अन्यथा त्रिविधमेव रूपमिति पीतत्वं नोपपद्येत । यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्येति श्रुतेः । व्यामोहिका तु माया तथैव भवति लयविक्षेपात्मिका । प्रभां वर्णयति ।। सान्द्रपयोदसौभगमिति ॥ सान्द्रो हि स्निग्धो नीलः पयोदो मेघः । परमानन्दस्य नीलरूपत्वे प्रकारचतुष्टयं पूर्वं निरूपितम् । आकाशकालभूमिवैकुण्ठैस्तस्य धर्मा इदानीं निरूप्यन्ते ॥




 गलशोभीत्यत्र- सरस्वत्या ज्ञानशक्तिरूपत्वात्तथा कृतिः। अत्र विद्यादिपदानि त्यक्त्वा सरस्वतीपददानस्यायं भावः । सा हि वीणागानपरा, प्रभुश्च मुक्तोपसृप्य इति मुक्ता । सर्वे सङ्गीतविद्यया यथा प्रभुं सन्तोषयन्ति तदर्थमेवं करणम्। एतेनैवंविधानां लीलास्थभक्तानां न प्राकृतत्वं, किन्तु कण्ठभूषणरूपत्वमेवेति ज्ञाप्यते । स्थानं प्रभुगुणज्ञानम् । मुक्तानामेव शुकादीनां तत्राधिकारादिति भावः॥

 पूर्वमिति ॥ निबन्धे निरूपितमित्यर्थः ॥ तत् स्मारयन्ति ॥ आकाशेत्यादि । चक्षू रूपवद् द्रव्यं गृह्णत्तदभावे निर्मेघ आकाशे दूरं