पृष्ठम्:श्रीसुबोधिनी.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'१२१
जन्मप्रकरणम्अध्यायः


सर्वात्मकस्य भगवतो जगद्ब्रह्मकालादिलक्षणधर्मवतो ब्रह्म हि मुख्यं लक्षणं भवति । अत एव हि सर्वब्रह्माधारवतो भृगोः पदं तत्र प्रतिष्ठितं भवति । स्वाश्रयत्वाल्क्ष्म्याश्च स जनको भवति । भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमितिवाक्यात् । ब्रह्मलक्षणत्वेनैवैश्वर्यं निरूपितम् । वीर्यं निरूपयन् कयाचिदवस्थयावस्थितं ब्रह्म जीवाख्यं, लक्षणान्तरत्वेनाह-  गलशोभिकौस्तुभमिति ॥ गले शोभायुक्तः कौस्तुभो




त्वज्ञानं भवति । अस्य मुख्यत्वमुपपादयन्ति ॥ सर्वात्मकस्यति । पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया *। यस्यान्तःस्थानि भूतानि, इति भगवद्वाक्याद्, यः पृथिव्यां तिष्ठन्नित्यादिश्रुतिभ्यश्च जगत्तथा । परस्तस्मात्तु भावोऽन्योऽव्यक्तो व्यक्तः सनातन इत्युप- क्रम्य, अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् *। यं प्राप्य न निवर्तन्ते तद्धाम परमं ममेति प्रभुवाक्याच्छ्रीव्रजजनमनोरथपूर्तये, दर्शयामास लोकं स्वं गोपानां तमसः परम् *। सत्यं ज्ञानमनन्तं यद् ब्रह्मज्योतिः सनातनम् *। यद्धि पश्यन्ति मुनयो गुणापाये समाहिता इत्यादिवाक्यैः सर्ववेदप्रतिपाद्यत्वेनाप्यक्षरं ब्रह्म पुरुषोत्तमस्य लक्षणम् । चेष्टारूपत्वेन, अथ सर्वगुणोपेतः काल इत्यादिना निरूपितो य आनन्दमयो लीलाकालः सोऽपि तथा । आदिपदाल्लीलाविशेषाश्च । तथाच सर्वात्मकत्वभगवत्त्वजगदादिलक्षणेषु ब्रह्ममुख्यं लक्षणम् । सर्ववेदप्रतिपाद्यत्वादाविर्भूतसच्चिदानन्दरूपत्वाज्ञानिमुक्तिस्थानत्वात् पुरुषोत्तमगृहचरणात्मकत्वात् । अतः श्रीवत्सस्य लक्ष्मत्वमुक्तमन्यथेतरविशेषणवदिदमप्युक्तं स्यादिति भावः । अत्रोपपत्त्यन्तरमाहुः ।। अत एवेति ॥ जातिवेदाक्षरब्रह्माणि तदानन्दश्च सर्वशब्देन उच्यते । तदाधारभूतो भृगोर्देहः । तद्वतस्तस्य गतिर्भगवत्पर्यवसायिन्येवेति तथेत्यर्थः । किञ्च भगवतस्त्वगिन्द्रियाद् भृगोरुत्पत्तिः ।तञ्चेतरेन्द्रियेभ्यो विशिष्टमन्तर्बहिर्व्यापित्वात्तथा ज्ञानजनकत्वाञ्च स्पर्शसुखाभिव्यक्तिहेतुत्वाद्भगवतः स्पर्शसुखाभिव्यक्तिहेतुः। श्रीस्तत आविर्भूतेत्याशयेनाहुः ॥ लक्ष्म्याश्चेत्यादि ।