पृष्ठम्:श्रीसुबोधिनी.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


इन्द्रियदेहप्राणान्तःकरणैरेव सर्वमारणमित्याकाशलक्षणं शरीरम् । अन्यानि महाभूतान्यायुधानि उदायुधानि वा तत्रैव सर्वान्मज्जयीन्त । नतु छित्वापि त्यजन्ति । एवं षड्गुणो भगवानिरूपितः। पुनरैश्वर्यादयो वैदिका उच्यन्ते ।। श्रीवत्सलक्ष्ममित्यादि ॥ श्रीवत्सो लक्ष्म यस्य । श्रीर्वत्सा यस्य । यल्लक्ष्म्या जनकं तद्भगवतश्चिह्नं व्यावर्त्तकम् । सा हि ब्रह्मानन्दो भवति । तस्या मूलं ब्रह्मैव यत् सर्ववेदप्रतिपाद्यम् । स भगवतोऽसाधारणो धर्मः ।




दायुधत्यं कथमितिशङ्काभावाय तत्तात्पर्यमाहुः ॥ इन्द्रियेत्यादि ।। प्राणपोषितानीन्द्रियाणि हि कार्यसाधकानि । विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्तेति वाक्याच्छङ्खस्य तादृशत्वादिन्द्रियरूपता। तेनान्तरो मारको, दोभावे मृतप्रायो यतः । गतदर्पस्य बाहोपमर्दनाशुनाशो भवति । प्रकृते च ब्रह्माण्डविग्रहो नारायण इति तदात्मकाऽब्जधारणेनैव यथा उपरि पतित्वा उपमर्दनं तथा भवतीति तथा । गदाया आधिदैविकप्राणात्मकत्वादधिभूतासुरप्राणान्निहन्ति । तेजोरूपमन्तःकरणं, चक्रं च तथा। मुक्तिदित्सायां चक्रेण मारयतीति तद्धतास्तथैव भवन्ति । ये ये हताश्चक्रधरेणेतिवाक्यात्। स्वयं निर्लेप एव महाभूतैरेव मारयतीति तात्पर्येण पक्षान्तरमाहुः ॥ आकाशेत्यादि । शङ्खगदाद्यायुधमेतावतैव चारितार्थेऽप्युदायुधमितिकथनेनान्योऽपि भावः सूच्यत इति तमाहुः ॥ उदायुधानोति वेति ॥ उदमुदकं तद्रूपाणीत्यर्थः । उदकत्वोक्तितात्पर्यमाहुः। तत्रैवेति। गुरुपदार्थं हि तत् स्वस्मिन् पतितं मजयति । तद्वदहङ्कारेणानम्रानासुरान् ग्रावप्रायान् महाभूतान्येव पुनः प्रापयन्ति, न तु मुक्तिमित्यर्थः ॥

 श्रीवत्स इत्यादि ॥ अत्रैतावद्वाच्यम् । पुरुषोत्तमैकनिष्ठत्वेन तदऽसाधारण लक्षणं श्रीर्भवति । तस्याश्चेतरागोचरत्वेन लक्ष्यज्ञानं कस्यापि न भविष्यतीति तत्प्रादुर्भावस्थानासाधारणधर्मं सर्वगोचरं कृत्वा स्वस्मिन् धारयति। तदर्शनेन तत्र श्रीस्थितिज्ञानेन पुरुषोत्तम-