पृष्ठम्:श्रीसुबोधिनी.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
जन्मप्रकरणम्अध्यायः


भुजेषु वा यस्य । अनेन द्विगुणः पुरुष उक्तः,लौकिकोऽलौकिकश्च ।। घातको रक्षको चोक्तौ विरोधेऽप्यतिसङ्कटे *। वेदोक्तं द्विविधं ज्ञानं भक्तिर्भगवतस्तथा।। शङ्खगदाद्युदायुधमिति ॥ वैराग्यम् । शङ्खस्तदादिश्व, गदादिश्च । अपां तत्वं दरवरं,भुवनात्मकं कमलं, प्राणात्मको वायुर्गदा, तेजस्तत्त्वं सुदर्शनम् । एवं शङ्खपद्मगदाचक्राणि क्रमेण निरूपितानि । मधुसूदनो माधवश्च त्रिवृन्नारायणस्तथा । शङ्खगदादय एव उद्यतान्यायुधानि यस्य ॥




जरायुजस्वेदजाण्डजोद्भिजानि वा ॥ तान्यप्युक्तरूपाणीति शेयम् । पुरुषस्य द्विभुजत्वमौत्सर्गिकमित्यत्र द्विगुणपुरुषत्वम् । एतस्यैव विवरणं, लौकिक इत्यादि । युद्धादिना जरासन्धादिमारणं लौकिकसदृशम् । अन्यथेश्वरस्यैतञ्चमूमारणे का युद्धापेक्षा स्यात् । अवस्थासाधनविरुद्ध कार्यकरणं पूतनाशकटादिमारणमलौकिम्॥ घातकाविति ॥ हननरक्षणयोरेकत्रैकदा करणं विरुद्धं, तथापि तत् कृतवान् । परीक्षितो लौकिकबीजांशस्य दाहनं, वैष्णवांशस्य गर्भस्य रक्षणं, तन्मातुश्च । तत्राप्यनिवर्त्यब्रह्मास्त्रात् । एतदेव सङ्कटरूपमपि। तथैवेन्द्रवृष्ट्यादिकमपि ज्ञेयम् ॥ वेदोक्तमिति ॥ कर्मब्रह्मविषयकमात्मपरमात्मविषयकं वा ज्ञानमित्यर्थः । भक्तिरपि सगुणा निर्गुणा च साधनफलरूपा वा । वैराग्यं हि सर्वदुःखनिवर्तकम् ।. भक्तदुःखनिवर्तनं ह्यायुधैः । तेन तेषां वैराग्यरूपता । तेन भक्तेष्वेव रागस्तद्द्वेषिषु तदभाव इति ज्ञाप्यते । अत एव मातुलादयोऽपि हताः॥ मधुसूदन इत्यादि ॥ उक्तरीत्या मधुसूदनो गदाचक्रे दक्षिणयोरब्जशङ्खौ वामयोर्धारयन् माधवो भवतीति । एवं सति गदाचक्रयोरेकत्र अब्जशङ्खयोश्चैकत्र स्थितिमात्रसाधर्म्येणात्र माधवत्वमपि । शङ्खाब्जे दक्षिणयोश्चक्रगदे वामयोर्धारयन्नारायणो भवति ॥ तेन शङ्खाब्जयोश्चक्रगदयोश्चैकत्र स्थितिमात्रसाधर्म्येण नारायणत्वम्। एवं त्रिवृदूपत्वं सङ्कर्षणप्रद्युम्नऽनिरुद्ध रूपताऽपि ॥ शङ्खेत्यादि-विग्रहवाक्ये, तद्गुणसंविज्ञानो बहुप्रीहिः ॥ शङ्खगदे आदी ययोस्ते शङ्खगदादिनी पनचक्रे उदायुधे यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः । शङ्खाब्जाभ्यां मारणासम्भवा-