रीक्षणे यस्य । अम्बुजौ वा सूर्यचन्द्रमसावीक्षणे यस्य । अम्बुजे
वा पञ्चाग्निविद्यया साधितरूपवति ईक्षणं ज्ञानं यस्य । अम्बुजाया
इ: कामस्तदेव क्षणं सुखं यस्य । अम्बुजे ब्रह्माण्डे वा
पालनार्थमीक्षणं यस्य । अम्बुजायां लक्ष्म्यामीक्षणं मुखं यस्य वा।
भोगायनतत्वात् । अम्बुजायां पृथिव्यामेव ईक्षणं यस्य, नान्यत्र ।
एवमनेकधा भगवतः श्रीनिरूपयितव्या ज्ञानाऽऽत्मिका ।
मध्ये निविष्टभ्रमरमेव अम्बुजं नेत्रतुल्यं भवति । निश्चलश्च
भ्रमरः । तेन मकरन्दपूरस्तत्र निरूपितः । दयाऽमृतादयोऽत्र
मकरन्दाः । तत्सम्बन्धे सर्वोऽपि मधुपो भवतीति निरूपायितुं
प्राकृतैरप्युपमीयते । यथा वा जलेऽद्भुतरूपं भवति कमलमेवं
सम्पूर्णेऽपि रूपेऽद्भुतरूपे नेत्रे भवतः। अनेनाद्भुता
ज्ञानशक्तिनिरूपिता । क्रियाशक्तिं निरूपयँश्चतुर्विधमपि ज्ञानसाह ।।
चतुभुंजमिति ॥ चत्वारो भुजाः क्रियाशक्तयो यस्य ।
चतुर्विधकार्यार्थं हि भगवदवतारः । तान्येव कार्याणि
चतुर्भुजरूपेणोच्यन्ते । चत्वारो वा पुरुषार्थाः, भूतानि,
धर्मादयो दिक्पाला वा भुजा
चतुर्विधमपीति ॥ प्रमाणप्रमेयसाधनफलरूपमपीत्यर्थः । अत्रायं
भावः । सम्पूर्णस्वरूपवर्णने ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च वाच्यानि ।
तत्र ज्ञानेन्द्रियेवीक्षणमेवोक्तम् । कर्मेन्द्रियेषु भुजा एवोक्ताः
तनैकेनैव पूर्णा ज्ञानशक्तिः, क्रियाशक्तिश्च निरूपतेति ज्ञायते । एवं
सति कर्मेन्द्रियं निरूपयन् यद्भगशब्दार्थरूपं ज्ञानं निरूपयति । तेन
जीवानामिव भगवतः कर्मेन्द्रियाणि न ज्ञानजनकानीति न, किन्तु
स्वयं चिद्रूपाणि पूर्णज्ञानजनकानीति ज्ञापयति ।।
चतुर्विधकार्यार्थमित्यादिना चतुर्विधक्रियाशक्तिविवरणम् । व्यूहकार्याण्येव
चतुर्विधानि तानि । तेषां नियतकार्यत्वात् । भगवद्भुजानां
क्रियाशक्तिरूपत्वेन सर्वेषां क्रियावतां मूलत्वात् पृथिव्यादिचतुर्णामेव
भूतेषुक्रियावत्त्वात्तदाधिदैविकरूपत्वमपीत्याशयेन भूतत्वमुक्तम् । तेन
लीलामध्यपातिनां तेषां प्रभुभुजरूपत्वमेव, न प्राकृतत्वमिति भावः।