पृष्ठम्:श्रीसुबोधिनी.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
जन्मप्रकरणम्अध्ययः


वर्णयति ॥ तमिति ॥ तं प्रसिद्धM लोकवेदयोः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः * इति ॥ आश्रयभूतः सर्वमूलभूतत्वात् सृष्टिरूप इति केचित् ॥ अद्भुतमिति ॥ अलौकिकमेव ह्यद्भुतं, न तु लोकवेदसिद्धम् । इदं हि प्रमेयबलं प्रमाणादतिरिक्तम् । तदेव हि वीर्यं भवति यल्लौकिकैर्वैदिकैश्चानुल्लङ्घ्यम् । आश्चर्यं तदैव भवति । अनेन तद्रूपं दृष्टमेवोपपद्यते; न तु स्मर्तुं वर्णयितुं वा शक्यत इत्युक्तम् । एवं सर्वैर्वर्णयितुं शक्यमशक्यं चोक्तं पदद्वयेन ॥ वालकमिति ॥ वाले बाले को ब्रह्मा ब्रह्माण्डविग्रहो यस्य । अद्भुतश्च बालको न स्वरूपतो वक्तुं शक्यः । बालानामपि कं सुखं यस्मादिति । बालः को ब्रह्मा यस्य । बलसम्बन्धिनो ये वालास्तेषां कं शिरोभूतम् । एवमद्भुतपराक्रमत्वेन यशो निरूपितम् । अलौकिकशोभां निरूपयति॥ अम्बुजेक्षणमिति ॥ अम्बुजतुल्ये कमलतुल्ये ईक्षणे यस्य । अम्बुजा वा लक्ष्मी-




ज्ञेयम् । भक्तानां दशप्राणादिरूपः। सर्वप्रकाशकः सूर्यो द्वादशात्मेति । तथा लीलासम्बन्धिपदार्थानामनन्यप्रकाश्यत्वाल्लीलायाः कालातीतत्वेन तदवच्छेदो न सम्भवतीति द्वादशमासात्मको लीलाधारभूतो यः संवत्सरात्मकः कालस्तद्रूपोऽपि । तेनैकहायनस्त्रैमासिकः कुमार इत्याद्युक्तिर्न विरुद्ध्यते लौकिकेन्द्रियाविषयत्वाल्लीलायास्तन्मध्यपातिभक्तानामेकादेशेन्द्रियरूपस्तनियामकश्चेति द्वादशात्मा । आत्मपदेन जीवपरमात्मानावुच्यते । कार्यं महत्तत्त्वम् । भूतान्येकविधानि । उभौ प्रकृतिपुरुषौ । त्रयो गुणाः । अन्यत् स्पष्टम् ॥ तेन लीलासम्बन्धिपदार्थसृष्टिरेतत्स्वरूपात्मिकैवेति फलितम् । एवं तात्पर्यनिरूपणेऽपीदमेव मूलम् । अन्यथा प्राकृतसम्बन्धे ब्रह्मत्वानुपपत्तिरिति ॥

 नतु लोकवेदसिद्धमिति ॥ यद्यपि साकारत्वेन वेदे सिद्धं, तथापि यादृग्रूपं प्रकटमधुना तत् तथैवेति तदभिप्रायेणेदमुक्तम् । तेन पूर्वेणनं विरोधः॥