पृष्ठम्:श्रीसुबोधिनी.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


एवं भगवतः प्रादुर्भावमैश्वर्येण निरूप्य वीर्यनिरूपणार्थं भगवन्तमनुवर्णयति-

श्रीशुक उवाच ॥


 तमद्भुतं बालकम्बुजेक्षणं
 चतुर्भुजं शङ्खगदायुदायुधम् ॥
 श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं .
 पीताम्बरं सान्द्रपयोदसौभगम् ॥९॥


 तमद्भुतमिति द्वाभ्याम् ॥ अब निर्वृताः सर्वे श्रोतारो बहिःसंवेदनरहिता जाता इति ज्ञापयितुं पुनः शुकोक्तिकथनम् ॥ दशलीलानिरूप्योऽयं पुरुषो द्वादशात्मकः * द्विगुणो भगवानत्र प्रादुर्भूत इतीर्यते ॥ सर्वेषां प्राणरूपश्च ऐहिकः पारलौकिकः *। ज्ञानक्रियोभययुतो दशलीलाप्रवर्तकः ॥ सगुणां नवधाभक्तिं निर्गुणां च प्रवर्तयन् * काण्डद्वयार्थं तनुते सोत्र द्वादशधा मतः ॥ सर्वप्रकाशकश्चैव कालात्मेन्द्रियनायकः *। आत्मा कार्यं च भूतानि अहंतत्त्वमुभौ त्रयः *। अक्षरं भगवाँश्चेति द्वादशात्मा हरिः स्वयम् ॥ तत्र प्रथमं दशधा स्वरूपलक्षणानि




कश्चिद्धीर: प्रत्यगात्मानमैक्षत्, ततस्तु तं पश्यति निष्कलं ध्यायमान इत्यादिश्रतिभिर्भगवदिच्छया भगवान् दृश्य इन्द्रियसामर्थ्येनाऽदृश्य इति श्रुत्योस्तात्पर्यनिरूपणेन निरस्यत इति प्राकट्यात् पूर्वमविरोधो यथा तथा प्राकट्यानन्तरमपीति न काचिच्चिन्तेत्यर्थः।।

 विशेषणसंख्यातात्पर्यं वदन्त आद्यश्लोकस्थविशेषणसंख्ययोः प्रत्येकसमुदायाभ्यां तात्पर्यमाहुः ॥ दशलीलेत्यादिना ॥ आद्यस्य तत्संख्याभिप्रायोऽयम् । द्वितीयेन पदेन समुदिततत्तात्पर्यमुक्तम् ।। द्विगुण इति ॥ मर्यादामार्गीयमैश्वर्यादिकं भूभारहरणवेदधर्मविहितभक्तिज्ञानादिप्रवर्तकमेकम् । ब्रह्ममर्यादाया अप्युल्लङ्घनं, दैत्यानामपि मुक्तिदानमदेयस्वरूपाऽमृतदानादौ पुष्टिमार्गीयैश्वर्यादिकं हेतुः। एवं सत्युभयविधं प्रकटीकृत्य प्रकटइति समुदिततत्तात्पर्यम् । एवमग्रेऽपि