पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


६१
श्रीस्कान्दपुराणे प्रथमोऽध्यायः



स सप्तरात्रात् म्रियतां सन्दष्टस्तकाहिनी ।।
शशापैवं मुनिपुनः सौभद्रेयं परीक्षितम् ॥ १५

शमीकाख्यः पिता तस्य शतं श्रुत्वा सुतेन तम् ।
नृपं प्रोवाच तनयं शृङ्गिणं मुनिपुङ्गवः ॥ १६

रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ?।
अराजके वयं लोके स्थास्यामः कथमञ्जसा ॥ १७

क्रोधेन पातकं भूयात् दयया प्राप्यते सुख ।
यः समुत्सादितं कोपं क्षमयैव निरस्यति ॥ १८

इह लोके परत्रसैौ अत्यन्तं सुखमश्नुते ।
क्षमायुक्ता हि पुरुषा लभन्ते श्रेय उत्तमम् । ॥ १९

ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ।
'भो गौरमुख ! गत्वा त्वं वद भूपं परीक्षितम् ॥ २०

इमं शापं मयुक्तं तक्षकाधिपदंशनम् ।
पुनरायाहि शीघ्र त्वं मसमीपं महामते !॥ २१

एवमुक्तः शमीठेन ययौ गौरमुखो नृषम् ।
समेत्य चाब्रवीद्भयं सौभद्रेयं परीक्षितम् ।। २२

दृष्ट्र सर्प पितुः स्कन्धे त्वया विनिहितं मृतम् ।।
शमीकस्य सुतः श्री शशाप वां साऽन्वितः ॥ २३

एतद्दिनात् सप्तमेऽह्नि तक्षकेण महहिना।
दष्टो विषाग्निना दग्धो भूयादश्वभिमन्युजः ॥ २४

एवं शशाप वां राजन ! शृङ्गी तस्य मुनेः सुतः।
एतद्वक्तुं पिता तस्य प्राहिणोन्मां वदन्तिकम् ॥ २५

इतीरयित्व ते भूपं आशु रौरमुखो ययैौ ।
गते गैरमुखे पश्चात् राजा शोकपरायणः । २६