पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
श्रीवेङ्कटाचलमाहात्म्यम्

 अभ्रंलिहमथोत्तुङ्गं एकस्तम्भसुविस्त्रृतम् ।
 मध्येगङ्गं व्यतनुत मण्डपं नृपपुङ्गवः ॥ २७

 महगारुडमन्त्रज्ञैः ओषधिज्ञैश्चिकित्सकैः ।
 तक्षकस्य विषं हन्तुं यत्नं कुर्वन् समाहितः ॥ २८

 अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ।
 आस्ते तस्मिन् नृपस्तुङ्गे मण्डपे विष्णुभक्तिमान् ॥ २९

 तस्मिन्नवसरे विप्रः काश्यपो मन्त्रिकोत्तमः ।
 राजानं रक्षितुं प्रायात् तक्षकस्य महाविषत् ॥ ३०

 सप्तमेऽहनि विप्रेन्द्रो दरिद्रो धनकामुकः ।
 अत्रान्तरे तक्षकोऽपि विप्ररूपी समाययौ ॥ ३१

 मध्येमार्गं विलोक्याथ काश्यपं प्रत्यभाषत। ।
 'ब्राह्मण ! त्वं कुत्र यासि ? वद मेऽद्य महामुने' ॥ ३२

 इति पृष्टस्तदाऽवादीत् काश्यपस्तक्षकं द्विजः ।
 परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना ॥ ३३

 धक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम्' ।
 इत्युक्तः स च तं विप्रं तक्षकः पुनरब्रवीत् ॥ ३४

 'तक्षकोऽहं द्विजश्रेष्ठ ! मया दष्टश्चिकित्सितुम् ।
 न शक्योऽब्दशतेनापि महामन्त्रायुतैरपि ॥ ३५

 चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ।
 अनेकयोजनोच्छ्रायं दशाम्युज्जीवय द्रुमम् ॥ ३६

 ततो भवान् समर्थो हीत्येवं मे भाति हे द्विज !' ।
 इतीरयित्वा तं वृक्षं अदशत्तक्षकतदा ॥ ३७

 अभवद्भस्मसात् सोऽपि वृक्षोऽत्यन्तसमुच्छ्रितः ।
 पूर्वमेव नरः कश्चित् तं वृक्षमधिरूढवान् ॥ ३८