एतन्नः श्रद्दधानानां ब्रूहि सूत ! कृपाबलात् ।
त्वद्वचोऽमृततृप्तानां न पिपासाऽपि विद्यते ॥ ४
श्रीसूतः---
श्रीस्वामिपुष्करिण्याश्च माहत्म्यप्रतिपादकम् ।
इतिहासं प्रवक्ष्यामि पठतां पापनाशनम् ॥ ५
परीक्षित्वृत्तान्तः
अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ।
अध्यास्त हास्तिनपुरं पालयन् धर्मतो महीम् ॥ ६
स राजा जातु विपिने चचार मृगयारतः ।
षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः ॥ ७
नष्टमेकं स विपिने मार्गयन् मृगमादरात् ।
ध्यानारूढं मुनिं दृष्ट्वा प्राह भूपालकोत्तमः ॥ ८
'मया बाणेन विपिने मृगो विद्धोऽधुना मुने ! ।
दृष्टः स किं? त्वया विद्वन् ! विद्रुतो भयकातरः ॥ ९
समाधिनिष्ठो मौनित्वात् न किञ्चिदपि सोऽब्रवीत् ।
ततो धनुरटन्या स स्कन्धे तस्य महामुनेः ! ॥ १०
निधाय मृतसर्पन्तु कुपितः स्वपुरं ययौ ।
मुनेस्तस्य सुतः कश्चित् श्रृङ्गी नाम बभूव वै ॥ ११
सख तस्य कृशाख्योऽभूत् श्रृङ्गिणो द्विजसत्तमः ।
सखाऽयं श्रृङ्गिणं प्राह कृशाख्यः स सखा ततः ॥ १२
'पिता तव मृतं सर्पं स्कन्धेन वहतेऽधुना ।
मा भूद्दर्पस्तव सखे ! मा क्रुद्ध्यस्त्वमिदं वृथा' । १३
सोऽभवत्कुपितः शृङ्गी दित्सुः शापं नृपाय वै ।
'मत्ताते शवसर्पं यो न्यस्तवान् मूढचेतनः ॥ १४