स सप्तरात्रात् म्रियतां सन्दष्टस्तक्षकाहिना' ।
शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ॥ १५
शमीकाख्यः पिता तस्य शप्तं श्रुत्वा सुतेन तम् ।
नृपं प्रोवाच तनयं शृङ्गिणं मुनिपुङ्गवः ॥ १६
'रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ? ।
अराजके वयं लोके स्थास्यामः कथमञ्जसा ॥ १७
क्रोधेन पातकं भूयात् दयया प्राप्यते सुखम् ।
यः समुत्पादितं कोपं क्षमयैव निरस्यति ॥ १८
इह लोके परत्रासौ अत्यन्तं सुखमश्नुते ।
क्षमायुक्ता हि पुरुषा लभन्ते श्रेय उत्तमम्' ॥ १९
ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ।
'भो गौरमुख ! गत्वा त्वं वद भूपं परीक्षितम् ॥ २०
इमं शापं मत्सुतोक्तं तक्षकाधिपदंशनम् ।
पुनरायाहि शीघ्रं त्वं मत्समीपं महामते !' ॥ २१
एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ।
समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ॥ २२
'दृष्ट्वा सर्पं पितुः स्कन्धे त्वया विनिहितं मृतम् ।
शमीकस्य सुतः श्रृङ्गी शशाप त्वां रुषाऽन्वितः ॥ २३
एतद्दिनात् सप्तमेऽह्नि तक्षकेण महाहिना ।
दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ॥ २४
एवं शशाप त्वां राजन् ! शृङ्गी तस्य मुनेः सुतः ।
एतद्वक्तुं पिता तस्य प्राहिणोन्मां वदन्तिकम्' ॥ २५
इतीरयित्वा तं भूपं आशु गौरमुखो ययौ ।
गते गौरमुखे पश्चात् राजा शोकपरायणः ॥ २६
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७९
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
श्रीस्कान्दपुराणे प्रथमोऽध्यायः